SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥ श्री जिनाय नमः ॥ शासनसम्राट श्रीमद् विजय नेमिसूरीश्वर महोपाध्याय श्री विनयविजयजी गणिं विरचितम् श्री हैमलघुप्रक्रिया व्याकरणम् । अथ उत्तरार्द्धम् ॥ अथाख्यातप्रक्रिया निरुप्यते । आख्यातप्रत्ययोश्च धातोवक्तव्याः । ॥१॥ क्रियार्थी धातुः ३॥३॥३॥ कृतिः क्रिया पठनपचनादिरूपा साऽर्थों यस्य स धातुः स्यात् । स च त्रेधा गणजो नामजः सौत्रश्च । आयो नवधा, तथाहुः "अदादयः कानुबन्धाश्चानुबन्धा दिवादयः । स्वादयष्टानुबन्धाश्च, तानुबन्धास्तुदादयः ॥ १ ।। रुधाद्रयः पानुबन्धा यानुबन्धास्तनादयः । त्यादयः शानुबन्धाश्च णानुबन्धाधुरादयः" ॥ २ ॥ उक्तानुवन्धरहिता भ्वादयः । यत्र नामैव प्रत्ययसंबन्धाद् धातुत्वं याति स नामधातुः । सौत्राश्च कण्ड्वादयो दोलणप्रमुखाश्च । प्रत्येकमेते त्रिविधाः परस्मैपदिन आत्मनेपदिन उभयपदिनश्च ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy