SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ दिवार्यावर्तस्य पश्चिमदिक्प्रदेशेषु प्रयुज्यमानाभ्यो गीर्भ्यः शुद्धस्वरूपा कविभिराहता लब्धप्रकर्षा खल्वेका भाषाऽऽपभ्रंशाभिध. यैव ज्ञायते । साऽपभ्रंशभाषा तत्कालीन देश्यभाषाभ्यो भिन्नाऽऽसीत् । एषोऽभिप्रायः समधिगत सकलापभ्रंशसाहित्यनिदर्शनाद्, दाक्षिण्य. चिह्नराजशेखरादीनां कथनाद्, अपभ्रंशस्य राजस्थान गुर्जरत्रादिप्रदेश प्रवर्तमानदेश्यभाषाणां च व्याकरणशब्दसमूहादिविषये पारम्पर्यगतसाम्यदर्शनात्प्रमाणपदवीमारोहति । वि. सं. ८३५ वर्षे दाक्षिण्यचिह्नोऽष्टादशदेश्यभाषाऽतिरिक्तामपभ्रंश भाषामुपदर्शयति । तस्याभिप्राये संस्कृतं ' दुर्जनहृदयमिव विषमं ' प्राकृतं च ' सज्जनवचनमिव सुखसंगतं किं त्वपभ्रंशस्तु ताभ्यामपि शोभनतरः 'प्रणयकुपितप्रियप्रणयिनीसमुल्लापसदृशो मनोहरः । एवं गुर्जरत्रातिलकभूतं भिन्नमालं परितो विहरन् दाक्षिण्यचिह्नो suit परं भावमाविष्करोतीति न चित्रम् । अपि च स कुवलयमालाकथायां गुर्जरपथिकमुखादपभ्रंशदोहक मुपवाचयतीति सुसंग तमेव । विक्रमायदशमशताब्द्या आदिमे विभागे प्रवर्तमानो राजशेखरस्तदुक्तमित्युल्लिख्य काव्यमीमांसायां दशमाध्याये अपभ्रंशं प्रयुञ्जानान्देशान्निर्दिशति यथा, , १० सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादान काश्च । तस्मिन्नेव ग्रन्थेऽन्यत्र च, सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठषम् । अपभ्रंशवदंशानि ते संस्कृतवचांस्यपि ॥ इति । ११ अपरत्र च तस्मिन्नेव ग्रन्थे राजासनसमीपमपभ्रंशिनां क वीनां निवेशनस्थानं व्यवस्थापयिष्यन् राजशेखर उद्गिरति ' [ राजासनस्य च ] पश्चिमेनाप्रभ्रंशिनः कवय [ निविशेरन् ] ११२ ८. अपभ्रंशपाठावली - टिप्पणी पत्र. ६६. ९. अ. पा. उद्धरण १४. १० राजशेखर - काव्यमीमांसा । पत्र. १५. ( गायकवाड - प्राच्य ग्रंथमाला. १.) ११. राजशेखर - का. मी. पत्र ३४. १२. राजशेखर - का. मी. पत्र. ५४-५५
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy