________________
૫૭
श्रीकायस्थितिस्तोत्रम् उत्कृष्टायुरप्कायिकेष्वेवमेवाष्टभवपूरकः । एतदनुसारेण सर्वेऽपि भावनीयाः । 'दु जहन्ना' इति एते सार्द्धगाथोक्ताः पृथ्व्यादयो यथोक्तप्रकारमुत्पद्यमानागुर्वायुरुपलक्षितभङ्गत्रये भवद्वये पर्यटन्ति ॥२१।।
मिह सन्नियरतिरिनरा, विगलभुवाइसु य नरतिरिसु एए। अट्ठभवा चउ भंगे, दुह पवणग्गिसु नरा दुभवा ॥२२॥
अवचूरिः - सञ्ज्यसञ्जिरूपास्तिर्यञ्चो मनुष्याश्च युगलिवर्जा मिथः परस्परमुत्पद्यमाना आयुर्भङ्गचतुष्केऽप्येकान्तरं भवाष्टकं पर्यटन्ति । तथैत एव सञ्ज्यसञ्जितिर्यङ्मनुष्या विकलेषु पृथिव्यादिषु चोत्पद्यमानाश्चतुर्भङ्ग्या मप्यष्टभवा भवन्ति । तथैते विकलपृथिव्यादयः सञ्ज्यसज्ञिनरतिर्यसूत्पद्यमाना अष्टौ भवान् भ्रमन्ति, नरतिर्यग्रूपाष्टमभवानन्तरं विकलपृथिव्याद्यन्यतरविवक्षितभवेऽनुपपत्तेः । 'दुह' इति जघन्यत उत्कर्षतश्च पवनाग्निषु नरा द्विभवाः, पवनाग्निभ्यामुद्धृतस्य मनुष्येष्वेवागमनासम्भवात् ।।२२।।
अथ स्तुतिकृविज्ञप्तिविस्तरमुपसञ्जिहीर्षुराहपरतब्भवाउमाणा, इह पहु संवेहओऽणुबंधठिई । कित्तिउ विन्नविउमलं, चउभंगिजहनुक्कोस कमा ॥२३॥
अवचूरिः - परो विवक्षितभवपरावर्त्तविषयो भवः, 'तब्भव' इति विवक्षित एव भवः, तयोरायूंषि आयुषी वा तत्प्रमाणकालमाश्रित्य, इह दुरन्तसंसारकान्तारान्तरे, हे प्रभो ! संवेधो विवक्षितभवाद्विवक्षितभवान्तरे पुनः पुनः परावर्तेन यथासम्भवमुत्पादः । अनुबन्धो विवक्षितपर्यायेणा व्यवच्छिन्नेनावस्थानम् । ततः संवेधतो योऽनुबन्धस्तस्य स्थितिः । यथा पूर्वकोट्यायुर्नरस्य रत्नप्रभायामुत्कृष्टस्थितिनारकत्वेनोत्पद्यमानस्यानुबन्धस्थितिरुत्कर्षतश्चतुष्पूर्वकोट्यधिकचतुत्सपायम्तिमान्यतो दशवर्षसहस्राभ्यधिकपूर्वकोटिरिति ॥२३॥