________________
૫ ૨
श्रीकायस्थितिस्तोत्रम् परभवतब्भवआउं, लहुगुरुचउभंगि सन्निनरतिरिओ। नरयछगे उक्कोसं, इगंतरं भमइ अट्ठभवे ॥१३॥
अवचूरिः - परभवः परावर्त्तविषयो भवः, तद्भवो विवक्षित एव तयोरायुर्लघुगुरुरूपपदद्वयनिष्पन्नचतुर्भङ्ग्यां भवति । तद्यथा-इह भवे तूत्कृष्टमायुः परभवेऽप्युत्कृष्टम् ।१। इह भवे उत्कृष्टं परभवे जघन्यम् ।२। इह भवे जघन्यं परभवे उत्कृष्टम् ।३। इह भवे जघन्यं परभवेऽपि जघन्यम् ।४। इति श्रीभगवतीचतुर्विंशतितमे शते चतुर्विंशतिदण्डकानुक्रमेण सर्वेषामपि जन्तूनामन्योन्यसंवेधेन जघन्योत्कृष्टानामुपपातपरिमाणभवकालायुरादीनां प्रतिपादनावसरे सविस्तरमयं भवसंवेधविचारः प्ररूपितोऽस्ति, तदनुसारेण चात्रापि परिभाव्यते । इहायुश्चतुर्भङ्ग्यामपि विचार्यमाणः सञ्जी नरस्तिर्यङ्वा प्रथमे नरकषट्के उत्कर्षत एकान्तरमष्टभवान् भ्रमति । तथाहि-कश्चित्सञ्जिपञ्चेन्द्रियमनुष्यः सप्तमवर्जेऽन्यतरस्मिन्नरके समुत्पद्यते, तत उद्धृतो मनुष्येषु ततः पुनर्नरके इत्यादियुक्त्यैकान्तरं भवग्रहणाष्टकमेव प्राप्यते, नवमभवेऽपरपर्यायत्वेनोपपत्तेरिति । जघन्यतस्तु भवद्वयमग्रेतनगाथायां वक्ष्यमाणमत्रापि योज्यम् । एवं तिरश्चोऽपि वाच्यम् ॥१३॥
भवणवणजोइकप्प-ट्ठगेवि इअ अडभवा उदु जहन्ना । सग सत्तमीइ तिरिओ, पण पुन्नाउसु य ति जहन्ना ॥१४॥
अवचूरिः - भवनपतिव्यन्तरज्योतिष्केषु सौधर्मादिकल्पाष्टकवासिवैमानिकेषु चैकान्तरं भ्रमतो रतिरश्चोरष्टौ भवा भवन्ति । जघन्यतस्तु द्वौ भवाविति । तथा 'सग' इति सप्त भवान् सप्तम्यां नरकपृथ्व्यामेकान्तरितं तिर्यङ् भ्रमति । यथा पूर्वकोट्यायुः सञ्जितिर्यक्पञ्चेन्द्रियः सप्तमपृथिव्यां जघन्यायुष्कतयोत्पन्नस्तत उद्धृत्य तिर्यक्षु ततः सप्तम्यां ततस्तिर्यक्षु ततस्तृतीयवारायामपि सप्तम्यां तत उद्धृतः पुनरपि तिर्यक्षु ततो मृतस्य सप्तमपृथिवीगमनासम्भवात् सप्तैव भवा भवन्ति । तिरश्चः सप्तमपृथ्व्यामेकान्तरं समुत्पद्यमानस्य कालतः षट्षष्टिः सागरोपमाणि चतुष्पूर्वकोट्यभ्यधिकानि ।