________________
४६
श्रीकायस्थितिस्तोत्रम् कथमपि गिरिसरिदुपलवर्तुलत्वन्यायात्तथाविधभवितव्यतावशेन पृथिव्यादिव्यवहारमनुपतन् व्यवहारराशि सम्प्राप्तोऽहम् । हे नाथ ! तत्राऽपि च व्यवहारराशौ वक्ष्यमाणप्रकारेण भ्रान्त इति योज्यम् ॥२॥
अयं च कायस्थितिविचारः प्रज्ञापनाष्टादशपदे सविस्तरं जीवगतीन्द्रियकायाद्यनुयोगद्वारैरनुक्रमेण निरूपितोऽस्ति, तथेहापि तदनुसारेण किञ्चित्परिभाव्यते
उक्कोसं तिरियगई, असन्निएगिदिवणनपुंसेसु । भमिओ आवलियअसं-खभागसम पुग्गलपरट्टा ॥३॥
अवचूरिः - उत्कर्षतस्तिर्यग्गतौ सञिप्रतिपक्षेष्वसञ्जिष्वेकेन्द्रियेषु सूक्ष्मबादरनिगोदप्रत्येकरूपेषु वनस्पतिकायिकेषु नपुंसकेषु चाऽऽवलिकाया असङ्ख्येयभागोऽसङ्ख्येयसमयात्मकस्तत्समाँस्तत्सङ्ख्यानावलिकाया असङ्ख्येयभागे यावन्तः समयाः स्युः, तावत्प्रमाणानित्यर्थः पुद्गलपरावर्त्तान् भ्रान्त इति ॥३॥ ओसेप्पिणि सुहुभत्ते, असंखलोगप्पएससम ओहे। भमिओ तह पिहु सुहुमे, पुढवीजलजलणपवणवणे ॥४॥
अवचूरिः - तथा सूक्ष्मत्वे सूक्ष्मनामकर्मोदयवतित्वे ओघतः पृथिव्यादिव्यपदेशं विना अवसर्पिणीर्धान्तः । कियत्सङ्ख्याः ? इत्याह-असङ्ख्येया लोका अलोकाकाशे लोकप्रमाणान्यसङ्ख्येयान्याकाशखण्डानि तेषां ये प्रदेशा निर्विभागा भागास्तत्समास्तावत्प्रमाणाः, प्राकृतत्वाद्विभक्तिलोपः । यथौघतस्तथा तावत्प्रमाणा एवासङ्ख्येयलोकाकाशप्रदेशप्रमिता इत्यर्थः, अवसर्पिणीः पृथक्पृथक्प्रत्येकमपि सूक्ष्मेषु पृथिवीजलज्वलनपवनवनस्पतिषु भ्रान्त इति योज्यम्। असङ्ख्यातस्यासङ्ख्यातभेदत्वात्, ओघोक्तावसर्पिण्यस
ङ्ख्यातापेक्षया पृथक्सूक्ष्मपृथिव्यादिविषयावसर्पिण्यसङ्ख्यातं लघीयस्तर१. “सामन्नं सुहुमत्ते, ओसप्पिणिओ असंखलोगसमा।" इति पुस्तकान्तरे ।