________________
૧૬૭
श्रीविचारपञ्चाशिका कालतः सप्रदेशाः पुद्गला: ३। तथा ये द्विगुणादयोऽनन्तगुणान्तास्ते सर्वेऽपि भावतः सप्रदेशाः पुद्गला भवन्तीति ४ । अथाप्रदेशसप्रदेशानामल्पबहुत्वमाह-'भा' भावाप्रदेशाः पुद्गलाः सर्वस्तोकाः, तेभ्यः कालतोऽप्रदेशाः पुद्गला असङ्ख्यगुणाः, तेभ्यो द्रव्याप्रदेशा असङ्ख्यगुणाः, तेभ्यः क्षेत्राप्रदेशा असङ्ख्यगुणाः ॥४७॥ क्षेत्राप्रदेशेभ्यः क्षेत्रसप्रदेशा असङ्ख्यगुणाः, एभ्यो 'द'इति द्रव्यसप्रदेशा विशेषाधिकाः, एभ्यः 'क' इति कालसप्रदेशा विशेषाधिकाः, एभ्यश्च 'भा' इति भावसप्रदेशाः पुद्गला विशेषाधिकाः । इति गाथार्थः ॥ ४८॥
अथ कडजुम्मादिस्वरूपमाहकर्ड तेउंए य दावर, कैलिउय तह संहवंति जुम्माओ । अवहीरमाण चउ चउ, चंउ ति दुगेगाओ चिटुंति ॥४९॥
अवचूरिः - जुम्मेति सर्वत्र योज्यम् । जुम्मशब्देन राशिरुच्यते । कडजुम्मः १, तेउगजुम्मः २, दावरजुम्मः ३, कलिउगजुम्मश्च ४ । एते चतुभिश्चतुर्भिरवहीरमाणाश्चत्वारः, त्रयः, द्वौ, एकश्चावतिष्ठन्ते । अयमाशयःएकजीवधर्मास्तिकायाधर्मास्तिकायलोकाकाशप्रदेशानां प्रत्येकमसङ्ख्यातानां परस्परं तुल्यानामसत्कल्पनया विंशतिः स्थाप्यन्ते, चत्वारश्चत्वारः कर्षणे चत्वार एव तिष्ठन्तीत्ययं कडजुम्म उच्यते आगमभाषयेति १ । तथाऽसङ्ख्येयासूत्सपिण्यवसर्पिणीसु यावन्तः समयास्तावत्प्रमाणाः सौधर्मेशानदेवा भवन्ति, ते चासत्कल्पनया त्रयोविंशतिः स्थाप्यन्ते, चत्वारश्चत्वारः कर्षणे त्रय एव तिष्ठन्तीत्ययं ते उगजुम्मः २ । एकैकनभःप्रदेशावगाहिनोऽनन्ताणुकान्ताः स्कन्धा अपि लभ्यन्ते, ते चासत्कल्पनया द्वाविंशतिः स्थाप्यन्ते, चत्वारश्चत्वारः कर्षणे शेषौ द्वावेव तिष्ठत इत्ययं दावरजुम्मः ३ । पर्याप्तबादरवन १ बादरपर्याप्त २ अपर्याप्तबादरवन ३ बादरापर्याप्त ४बादर ५ सूक्ष्मापर्याप्तवन ६ सूक्ष्मापर्याप्त ७ सूक्ष्मपर्याप्तवन ८ सूक्ष्मपर्याप्त ९ सूक्ष्म १० भव्य ११ निगादजीव १२ वनस्पतिजीव १३ एकेन्द्रिय १४ तिर्यञ्च १५ मिथ्यादृश १६ अविरति १७ कषायि १८ छद्मस्थ १९ सयोगि २० संसारि २१ सर्वजीमा १ रते च