________________
૧૬ ૨.
श्रीविचारपञ्चाशिका अवचूरिः - आहार १ शरीरे २ न्द्रियो ३ च्छ्वास ४ वचन ५ मनः ६ एताः षट् पर्याप्तयः स्युः । तत्रैकेन्द्रियाणां प्रथमाश्चतस्रः पर्याप्तयः स्युः । विकलानां द्वित्रिचतुरिन्द्रियाणां प्रथमाः पञ्च पर्याप्तयः स्युः । अमनस्कमनुष्यतिरश्चां सम्मूच्छिमपञ्चेन्द्रियमनुष्यतिरश्चां प्रथमाः पञ्च पर्याप्तयः स्युः । समनस्कानां गर्भजतिरश्चां षडपि पर्याप्तयः स्युः ॥३३॥ गर्भजमनुष्याणां नारकाणां च षट् पर्याप्तयः । तथा देवानां पञ्च पर्याप्तयः, यत्तेषां वचनमनसोर्द्वयोरपि द्वे पर्याप्ती समकालमेव स्याताम् । यदुक्तं देवानां श्रीराजप्रश्नीयो पाङ्गसूत्रे-“तेणं कालेणं तेणं समएणं सूरियाभे देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छइ । तं जहा-आहारपज्जत्तीए १ सरीरपज्जत्तीए २ इंदियपज्जत्तीए ३ आणपाणपज्जत्तीए ४ भासमणपज्जत्तीए ५ ।" (सूत्र ४१, पृ. ९७) ॥३४॥ औदारिकवैक्रियाहारकशरीराणां षण्णामपि पर्याप्तीनामारम्भः प्रारम्भो युगपत्समकालः स्यात् । ततः त्रयाणामौदारिकवैक्रियाहारकशरीराणां प्रथमा आहारपर्याप्तिरेकस्मिन् समये स्यात् । पुनद्वितीया शरीरपर्याप्तिरौदारिकवैक्रियाहारकशरीराणामान्तौहूर्तिकी स्यात् ।।३५।। औदारिकशरीरेऽग्रेतनाश्चतस्र इन्द्रिर्योच्छ्वासवचनमनःपर्याप्तयः पृथक्पृथक् असङ्ख्यात समयात्मकान्तर्मुहूर्ताः स्युः । अयमाशयः-औदारिके इन्द्रियादयश्चतस्रोऽपि पर्याप्तयः पृथक्पृथक् असङ्ख्यसमयात्मकैरन्तर्मुहूर्तेः पूर्णा भवन्तीत्यर्थः । तथा वैक्रियाहारकशरीरयोरेताश्चतस्र इन्द्रियोच्छ्वासवचनमनःपर्याप्तयः पृथक्पृथक् समयेन भवन्ति । अयम्भावः-एकसमयेनेन्द्रियपर्याप्तिः १, द्वितीयसमयेनोच्छ्वासपर्याप्तिः २, तृतीयसमयेन वचनपर्याप्तिः ३, चतुर्थसमयेन मनःपर्याप्तिः ४ ॥ ३६ ॥ सुरेषु षण्णामपि पर्याप्तीनामारम्भः प्रारम्भः समं समकालः स्यात् । तत्र प्रथमा आहारपर्याप्तिरेकसमयेन स्यात् । द्वितीया शरीरपर्याप्तिरन्तर्मुहूर्तेन भवति । तृतीयेन्द्रियपर्याप्तिरेकसमयेन स्यात् । चतुर्युच्छ्वासपर्याप्तिस्तदनन्तरमेवाग्रेतनद्वितीयसमयेन भवति । पञ्चमी वचनपर्याप्तिः षष्ठी मनःपर्याप्तिश्चैकस्मिन्नेव समये स्यातामिति । तथैताभिः स्वस्वयोग्यपर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति, तेऽप्याद्यपर्याप्तित्रयं समाप्य