SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ૧૫૯ - श्रीविचारपञ्चाशिका उक्तः प्रथमशरीरविचारः । अथ द्वितीयविचारमाहनरसंखाउयगमणं, रयणाए भवण जाव ईसाणे। ताण तणु जहन्नेणं, परिमाणं अंगुलपहुत्तं ॥२४॥ ताण ठिइ जहन्नेणं, मासपहुत्तंति होइ नायव्वा । उक्कोस पुव्वकोडी, जेद्रुतणू पंचधनुहसयं ॥ २५ ॥ सक्करसणाइएसुं, मणुयाणं तणु जहन्नओ होइ। रयणिपहुत्तं णेयं, उक्कोसं पुव्वभणियं तु ॥ २६ ॥ ताण ठिइ जहन्नेणं, वासपहुत्तं तु होइ णायव्वा । उक्कोसा पुव्वं पिव, आगममाणस्स एमेव ॥ २७ ॥ अवचूरिः - येषां गर्भजमनुष्याणां सङ्ख्यातवर्षायुषां रत्नप्रभायां प्रथमनरकभूम्यां भवनपतिव्यन्तरज्योतिष्कसौधर्मेशाने च गमनं भवति, तेषां तनुः शरीरं जघन्येनाप्यङ्गुलपृथक्त्वपरिमाणं स्यात् । पृथक्त्वसङ्ख्या द्व्यादिनवपर्यन्ता ॥ २४ ॥ तेषां स्थितिः कालमानं जघन्येन मासपृथक्त्वं, उत्कृष्टतः स्थितिमानं पूर्वकोटिः, उत्कृष्टतश्च तनुमानं पञ्चशतधनुर्मानमित्यर्थः ॥ २५ ॥ शर्करासनत्कुमारादिषु । अयमाशयः-येषां नराणां शर्कराप्रभादिषट्पृथ्वीषु गमनं भवति, येषां च नराणां सनत्कुमाराद्यनुत्तरविमानान्तेषु गमनं स्यात्, तेषां मनुष्याणां तनुः शरीरं जघन्यतो रनिपृथक्त्वं हस्तपृथक्त्वं ज्ञेयं, उत्कृष्टतस्तनुमानं पूर्वभणितम् ॥ २६ ॥ तेषां स्थितिर्जघन्येन वर्षपृथक्त्वं भवति, उत्कृष्टा स्थितिस्तु पूर्वभणिता पूर्वकोटिरित्यर्थः। आगममानस्यैवमेव, कथम् ? रत्नप्रभायाः समागत्य ये गर्भजमनुष्यत्वेनोत्पन्नास्तेषां स्थितिर्मासपृथक्त्वं भवति, मासपृथक्त्वमध्ये कालं न करोतीत्यर्थः । तेषाञ्च शरीरमानमङ्गुलपृथक्त्वं जघन्येन स्यादिति, उत्कृष्टा स्थितिः पूर्वकोटिः, उत्कृष्टशरीरमानं पञ्चशतधनुर्मानमिति । तथा शर्कराप्रभादिभ्यः पञ्चनरक - 'संखाइय' इत्यपि पाठः । A 'सक्करेसाणाइएसु' । 'सक्करसाणाइएसु' इत्यपि । १. 'जहण्णेणं' इत्यपि।
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy