SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीलोकनालिद्वात्रिंशिका ૧૮૩ (१३५७)तमहायनेऽलङ्कृतवान् इति गुर्वावलीपट्टावलीभ्यामवगम्यते । अतो द्व्युत्तरत्रयोदशशत (१३०२) तमवर्षतोऽनन्तरं सप्तविंशत्यधिकत्रयोदशशत(१३२७)तमवर्षतश्चार्वाक् मध्यवर्तिनि समये प्रकरणमिदं रचितमित्यनुमीयते, आचार्यपदप्रतिष्ठाप्राप्तस्य श्रीधर्मघोषसूरिरिति नाम्नोऽत्राप्रदर्शनात् । तैरेव वाचंयमचूडामणिभिः श्रीमज्जिनागमरत्नाकरादुद्धृत्यानेकानि प्रकरणरत्नानि त्रिभुवनाधीशजिनेश्वरस्तुतिगर्भितानि गुम्फितानि वरिवर्त्तन्ते तेष्वन्यतममेतच्छ्रीलोकनालिकाद्वात्रिंशिकाभिधानं प्रकरणम् । अस्य चैकं पुस्तकं गुरुवर्यप्रवर्त्तकश्रीमत्कान्तिविजयपादानां पुस्तकालयत उपलब्धम्, अपरञ्च मुनिवर्य श्रीमोहनलालमुनिपूज्यानां ज्ञानमन्दिरात्सम्प्राप्तम्, तृतीयं पुनः श्रीयुतपन्न्यास श्रीमदानन्दसागरमुनिवराणां सकाशतः समासादितम् । अत: पुस्तकत्रयप्राप्त्याऽतीव शोधनकर्मणि साहाय्यं लभमानोऽमीषां महाशयानामुपकृतिं मन्ये । एतत्पुस्तकत्रितयीनिरीक्षणेन मन्दमतिना मया यथामति संशोधितम्, अत्र च यत्र मतिमान्द्येन क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र करुणावरुणालयैः संशोधनीयं धीधनैरित्यभ्यर्थयते— सविनयरचिताञ्जलिः प्रवर्त्तकपादपद्मषट्पदः चतुरविजयो मुनिः (सुरत)
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy