SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिणयः। चेद् ? न । एकस्यैवार्थभेदेनाकर्मकत्वसकर्मकत्वदर्शनात् । तदेतदभिसन्धायाह-*कृञ इति* ॥ अयम्भावः-व्यापाराऽवाच्यत्वपक्षे फलमात्रम् अर्थ इति फलितम्। तथाच-करोतीत्यादौ यत्नप्रतीतेस्तन्मात्रं वाच्यमभ्युपेयम् । तथाच 'यति प्रयत्ने' इतिवत् फलस्थानीययत्नवाचकत्वाविशेषोदकर्मकतापत्तिरुक्तरीत्या दुर्वारेति । तथाच 'न हि यत्न' इत्यत्र दर्पणः *तत्त्वमिति । अनुगतं सकर्मकत्वमित्यर्थः। *दर्शनादिति । यथा जिधातोरभिभवाथंऽकर्मकत्वस्य न्यूनीकरणार्थे सकर्मकत्वस्याभ्युपगमात्सकर्मकधातुलक्षणे तत्प्रवेशेऽकर्मके तस्मिन्नतिव्याप्तेरप्रवेशे च न्यूनीकरणेऽथें तत्रैवाऽव्याप्तिरित्यर्थः ॥ ____ यद्यपि तत्तदर्थविशिष्टानेवोक्तरीत्योपादाय सकर्मकत्वनिर्वचने दोषाभावः, तथापि 'बहुलमेतन्निदर्शनम्' इति स्मरणात्तत्र तत्रावृत्तिकरणाच्च तावद्धातूनां युगपद ग्रहणाऽसम्भवे तात्पर्यमिति बोध्यम् । तदेतदिति । पूर्वोक्तदूषणगणमित्यर्थः॥ ____ ननु 'कृजोऽकर्मकतापत्तेः' इत्यस्य कृजो यत्नार्थकत्वनिरासप्रतिपादकस्य कथमुक्तार्थाभिसन्धायकत्वमित्याशङ्कयाभिसन्धानप्रकारं विशदयति-*अयम्भाव इति* । *फलमात्रमिति* । मात्रपदेन व्यापारव्यवच्छेदः । 'करोत्यादौ' इत्यादिना सविषयार्थधातुसंग्रहः। ___ *तन्मात्रमिति । यत्नादिरूपविषयिमात्रमित्यर्थः । *अकर्मकतापत्तिरिति । व्यापारस्य धात्ववाच्यत्वे उक्तलक्षणाऽऽक्रान्तस्येति भावः। केचित्तु अकर्मकत्वापत्तिरिति विषय्यर्थककृजाद्यभिप्रायेणैव तेषामेव प्रक्रान्तत्वात् । एवं च न तदप्रसिद्धिरित्याहुः। *उक्तरीत्येति । उक्तप्रायरीत्या सकर्मकधातुभिन्नधातुत्वमित्याकारिकयेत्यर्थः । यथाश्रुते धातोापाराऽवाचकत्वे स्वार्थफलसमानाधिकरणव्यापारवाचकत्वरूपाऽकर्मकत्वापादनस्याऽसम्भवदुक्तिकत्वापत्तेः।। नन्विदानी धातुमात्रस्यैव व्यापारवाचकत्वस्याऽसिद्धत्वात् सकर्मकरूपप्रतियोग्यप्रसिद्ध्या भवदुक्तार्थापादनस्याप्यसम्भवदुक्तिकत्वं समानम् । अन्यतमत्वरूपस्य तु स्वयमेव निराकृतत्वादुक्तपदेन तद्ग्रहणाऽसम्भवादिति चेद् ? न । नयत्यादिद्विकर्मकाणां संयोगाऽद्यनुकूलाऽजादिनिष्टक्रियात्मकफलार्थकत्वस्य धातोः फलमात्रार्थकत्ववादिनाऽप्यभ्युपगमादजादिनिष्ठक्रियायाः संयोगरूपफलजनकत्वाल्लोकप्रसिद्धेश्च व्यापारत्वात्तदर्थकधातून् ण्यन्तादिधातून वोपादायैव कथञ्चित्प्रसिद्धिसम्भवादिति नोक्तव्याख्याने दोषः। परीक्षा त्यर्थः । *एकस्य-यथा रुच् धातोः, अयं दीप्तावकर्मकः, अभिप्रीतौ सकर्मकः । ननु कृञोऽकर्मकत्वापत्तिमात्रकथनेन कथं वक्ष्यमाणार्थस्य लाभ इत्यतो भावं वर्णयति-*अयमित्यादिना । *यती प्रयत्ने इति वदिति । तस्य यथा यत्नतदाश्रयत्ववाचकता, तथेत्यर्थः। व्यापारस्यावाच्यत्ववादिनो मीमांसकस्य मतं नैयायिकविशेष्यस्य च मतं खण्ड
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy