________________
दर्पणपरीक्षासहिते भूषणसारे
दर्पणः शयवर्णन साधीय इति विभाव्यते, तदापि संख्याकालकर्त्तकर्मकारकविशिष्टक्रियाया धात्वर्थत्वमादाय तत्प्रवृत्तिः। आख्यातस्यव तादृशक्रियाद्योतकतासम्भवात् ।
न चास्त्वेवमेवाऽऽशयः । वाच्यताकल्पोक्तकार्यकारणभावकल्पनप्रयुक्तलाघवस्योपोदलकत्वादिति वाच्यम् । यत् तादृशमतं प्रक्रियादशायां चक्षुःश्रुत्युक्तिविश्वस्तैरप्याश्रयितुमशक्यम् , प्रागेव तु प्रकृतिप्रत्ययाऽर्थविवेचनचतुरैरक्षपादैः । तथाहिकारकविशिष्टक्रियाया धात्वर्थत्वे "लः कर्मणि" इति विधिवैयापत्तिः । नच तस्य द्योतकत्वप्रतिपादकता । शानजादेरपि तथात्वाऽऽपत्त्या, तत्रापि कादीनां क्रियाविशेषणतया भानापत्तेः।
किञ्च चैत्रौ पचत इत्यादौ चैत्रादिगतसंख्यायास्तत्रारोपे मानाभावः। वाचकतामते काशे तहानोपगमेन प्रयोगप्रामाण्योपपत्तावप्रामाण्याऽभ्युपगमस्याऽन्याय्यत्वात् । स्वाश्रयाऽऽधेयत्वसंबन्धेन द्वित्वादेस्तत्र सत्त्वेऽप्यव्यावर्त्तकतया विशेषणत्वाऽभावेन तद्वैशिष्टयस्य तत्राऽसम्भवाच्च । न हि द्वित्वाश्रयाश्रितं घटाऽऽदिरूपं, क्रिया वा, द्वे इति व्यवहियते । अधिकमग्रे वक्ष्यते ।
किञ्च कतकर्मणोः पदार्थैकदेशतया तत्र देवदत्तादीनामन्वयाऽसम्भवः । “पदार्थः पदार्थेनाऽन्वेति" इति व्युत्पत्तेः । तदन्वयाऽभ्युपगमेऽपि धात्वर्थेऽभेदेन विशेषणतया स्तोकादिपदवन्नपुंसकत्वाऽऽपत्तिश्च । अपि च क्रियाविशेषणत्वेनोपस्थितस्य कर्तुविशेषेणाऽऽकाहाविरहात् पचतीत्युक्ते, कः कीगिति प्रश्नाऽनुपपत्तिः। वक्ष्यति हि ग्रन्थकृत्-'नहि गुणभूतः कर्ता निषेधं स्वाङ्गत्वेन ग्रहीतुमलम्। इति । अत एवैतत्प्रामाण्यात् प्रत्ययवाच्यत्वं, कर्तुर्धात्वर्थविशेषणत्वं चेति गजन्तःपरास्ताः । प्रत्ययस्य द्योतकतायामेव तन्नियमस्य दर्शितत्त्वात् । प्रत्ययार्थप्राधान्यस्यैवततो लाभाच्च।
नच भावनायाः प्रत्ययवाच्यतापक्षेऽप्युक्तप्रश्नाऽनुपपत्तिर्दुःसमाधेयैवेति वाच्यम् । शक्तिभ्रमाल्लक्षणया वोपस्थितस्य कर्तुः साकाङ्क्षत्वसम्भवात्। .
किञ्च 'प्रत्यायानां प्रकृत्यर्थाऽन्वितस्वार्थबोधकत्वम्' इतिव्युत्पत्तिसिद्धविभक्त्यर्थसङ्ख्याप्रकारकबोधं प्रति विशेष्यतया प्रकृतिजन्योपस्थितेहेतुत्वस्य कर्नादावभावेन सवयाऽन्वयाऽसम्भवः। आख्यातार्थसङ्घन्याप्रकारकबोधे आख्यातार्थकर्तृकर्मोपस्थितेहेतुत्वकल्पनमप्याग्रहमूलकमेव । पदार्थयोराधाराधेयभावेनाऽन्वये विभिन्नपदजन्योपस्थितेस्तन्त्रत्वात् । विभक्त्यर्थकर्तुलिङ्गानन्वयिनोऽद्रव्यतया तत्र सङ्घयान्वयासम्भवात् । “गुणानां च परार्थत्वाद्" इति न्यायाच्च । मन्मते अयोग्यतया तस्याः स्वप्र
परीक्षा एकैकावयवे समुदायरूपत्वारोपेण तादृशव्यवहारात् । एवं पचतीत्यादौ तत्तदाख्यातजन्या या वर्तमानत्वादिप्रकारिका प्रतीतिस्तद्विषयतायां तत्तच्छब्दप्रयोगाधिकरणकालवृत्तित्वमादाय सा प्रतीतिर्वाच्या । अत एव पाकान्निवृत्तेऽपि कर्तरि तदीयव्यापारे वर्तमानत्वभ्रमेण पचति चैत्र' इत्यादिव्यवहारस्योपपत्तिः । भविष्यत्वादिघटकवर्तमानत्वन्तु प्रागभावादिष्वेवान्वेति । विषयतायां वर्तमानत्वान्वयादेव पौराणिकीयश्रीकृष्णादिजन्मनो वर्णने कृते 'श्रीकृष्णो विहरति'इत्यादिव्यवहारस्योपपत्तिः