SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - ४०२ बोधात् तत्राप्यावश्यकै शक्तिरिति भावः । वस्तुतः पदैः पदार्थबोधवद्वाक्येन वाक्यार्थबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ । अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादौ तादृशव्युत्पत्तिरहितस्यापि बोधप्रसङ्गः । घटमानयेत्यत्रेव पदार्थानामुपस्थितौ, दर्पणः यस्य वाचकत्वग्रहेणेत्यर्थः । * बोधात् प्रकृत्यर्थविशिष्टप्रत्ययार्थबोधादित्यर्थः । *त्रापि । सुप्तिङन्तरुपपदेऽपि । शक्तिरिति । तत्कल्पनेत्यर्थः ॥ ननु घटेनेत्यादिमूलेन समयुक्तिकस्फोटद्वयोपादानात् कथं पदस्फोटे साध्ये वाक्यस्फोटस्य दृष्टान्तत्वम् । किञ्च प्रथमं पदस्फोटस्य सिद्धौ तदर्थ सम्बन्धरूपवाक्यार्थाप्रसिद्धया व वाक्यशक्तिकल्पनावसर इत्याद्यपरितोषात् पदस्फोटमेव दृष्टान्तीकृत्य वाक्यशक्ति साधयति - वस्तुत इति । तथाच यत्र पदोपस्थित्या पदशक्तिग्रहसम्भवस्तन पदशक्त्यैव वाक्यार्थबोधो, यत्र तदसम्भवो हरेऽवेत्यादौ तत्रानापत्या वाक्यशक्त्यैव तद्बोध इति । यद्यपि व्यवस्थिताविति पदमहिम्ना पक्षद्वयं व्यवस्थितमिति लभ्यते, तथापि आवश्यकवाक्यस्फोटेनैवोपपत्तौ पदस्फोटकल्पनं नावश्यकमिति सिद्धान्ते वाक्यस्फोट एव पर्य्यवस्यतीति बोध्यम् । वाक्यस्फोटस्यावश्यकतामेव दर्शयति — अन्यथेति । वाक्यशक्त्यनभ्युपगमे इत्यर्थः । तादृशेति । वाक्यार्थबोधजनकत्वरूपवाक्यशक्तिज्ञानरहितस्यापीत्यर्थः । तत्सत्त्वे तु तत्राऽपि बोध इष्ट एवेति भावः । *बोधप्रसङ्गः * । घटकर्मका नयनानुकूलकृतिबोधापत्तिरित्यर्थः । पदवृतिज्ञानजन्य पदार्थोपस्थितेः सत्त्वादिति भावः । *घटमानयेत्यत्रेवेति । अत्र तादृशव्युत्पत्तिरहितस्येत्यनुषज्यते । परीक्षा विंशति" इत्यादि सूत्रनिपातितसमुदायस्य सहस्रादिशब्दानाञ्च व्युत्पत्त्या । *शक्तिग्रहेण एकैवेति* । एवकारेण प्रकृतिप्रत्यययोः पृथक् शक्तिव्यवच्छेदः । ननु 'घटेन' इत्यादिमूलेन समानयुक्त्या पदस्फोटवाक्यस्फोटयोर्व्यवस्थापनमसङ्गतम्, पदस्फोटासिद्धौ पदार्थ संसर्गरूपवाक्यार्था प्रसिद्धेस्तादृशार्थबोधकत्वं वाक्येन सिध्यतीति कथं वाक्यस्फोटस्य व्यवस्थापनमित्यभिप्रायेण मूलस्य 'घटेन' इत्यादौ पदस्फोटसाधकत्वम्पदस्फोट सिद्धौ तद्दृष्टान्तेन वाक्यस्फोटस्यापि सिद्धिरित्यत्र तात्पय्र्यमित्याशयेनाह - वस्तुत इति । *व्यवस्थिताविति । यत्र हरेऽवेत्यादौ पदविभा सम्मोहः, तत्रैव वाक्यस्य शक्तिरिति न, किन्त्वसम्मोहस्थलेऽपीति व्यवस्था । *अन्यथेति । एवमनङ्गीकारेऽसम्मोहस्थले पदशक्यैव वाक्यार्थबोधस्वीकार इत्यर्थः । *तादृशव्युत्पत्तिरहितस्य* । वाक्यार्थबोधकत्वरूपवाक्यशक्तिज्ञानरहितस्य । एतेनैता - समुदायस्य बोधकत्वज्ञानं यस्य भ्रान्तस्य तस्य बोधो भवत्येवेति सूचितम् । प्रामाणिकानान्त्वेतादृशस्थले समुदायशक्तिज्ञानाभावान्न घटकर्मकानयनमिति बोधः । समुदायशक्त्य स्वीकारेऽत्रापि पदार्थोपस्थितिसत्वात्तादृशबोधापत्तिरिति भावः । ननु तात्पर्य्यज्ञानरूपसहकारिकारणान्तराभावान्नापत्तिरत आह- *घटमानयेत्यादि ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy