SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ३९७ ना स्फ़ोटनिर्णयः। पचतितरां मैत्रः, पचतिकल्पं मैत्र इत्यादिषु नानार्थत्वाभेदान्वययोः सम्भव एवेति कर्तृवाचकता स्यादिति भावः । न च 'पचतिकल्पम्' इत्यत्र सामानाधिकरण्याऽनुरोधात् कर्तरि लक्षणा, 'पचमान' इत्यत्राप्यापत्तरिति । "लः कर्मणि" इत्यनुशासनश्च लाघवात् कल्पिते लकारे कादिवाचित्वं कल्पितमादायेत्युक्तम् ॥ ६३ ॥ __ इति वर्णस्फोटनिरूपणम् । दर्पणः न्वयबाधानुपपत्तेरित्यर्थः । लडादेशत्वबोधनफलं धात्वर्थवर्तमानत्वप्रतीतिरेवेति बोध्यम् । *पचतिकल्पमिति । इदञ्च स्वाद्यन्तं नामेति मतमनुसृत्य । 'सत्त्वप्रधा. नानि नामानि' इतिनिरुक्ताद् द्रव्यविशेष्यकबोधजनकत्वं नामत्वम् । तदेव च 'नामा. र्थयोः' इति व्युत्पत्तिघटकम् । अत एव निपातार्थस्य भेदाऽन्वय इति मतेनेदं दूषणमिति तु परे । लक्षणेत्यस्य लस्येति शेषः। ___ *आपत्तेरिति । नच सा तवेष्टेति भावः । नन्वादेशानां वाचकत्वे आदेशिशक्तिप्रतिपादक "लः कर्मणि" इत्यादिसूत्राणां वैयर्थ्यमत आह-*लः कर्मणीति*। *उक्तमिति* । आख्यातशक्तिनिरूपणावसर इति शेषः । एवञ्च प्रयोगे श्रूयमाणप्रकृतिप्रत्ययघटकवणेषु शक्तिवर्णस्फोटमिति पर्यवसन्नम् ॥ ६३३ ॥ इति भूषणसारदर्पणे वर्णस्फोटनिरूपणम् ॥ १३ ॥ ___- 000000 -- __ परीक्षा पचतितरामित्यादिषु नामत्वमस्तीति पचतितरान्देवदत्त इत्यादिषु सामानाधिकरण्यानुरोधात्कर्तुस्तिवाच्यत्वमस्तु, कृत्प्रत्ययस्थले नामार्थयोरभेदान्वय इति नियमानुरोधो भवताकर्तुच्यत्वमिति चेत्पचतितरान्देवदत्त इत्यादावपि तस्यानुरोधस्तुल्य इत्यर्थः। इदं सुबन्तन्नामेति मतेन । यदि तु 'सत्त्वप्रधानन्नाम' इति 'चत्वारि पदजातानि नामाख्यातोपसर्गनिपातः' इति उक्तवाक्ये उपसर्गनिपातयोः पृथगुपादाने नाश्रीयेते तदा नायन्दोष इत्यवधेयम् । - अथवा-तरबाद्यन्तेत्यादिना कर्तुरादेशवाच्यत्वसाधिका भवदुक्तिः, सा न युक्ता। लकारस्य कर्तरि लक्षणव्यापिसामानाधिकरण्यस्योपपत्तिरिति कस्यचिच्छङ्कानिरस्यति-*नचेत्यादिना । नन्वादेशानामेव वाचकत्वे "लः कर्मणि" इति सूत्रविरोध इत्यत आह-*ल:कर्मणीति*। *उक्तमिति । आदेशिशक्तिनिरूपणावसर इति शेषः । एवञ्च प्रयोगे श्रूयमाणेषु प्रकृतिप्रत्ययेषु वर्णसमुदायरूपेषु शक्तिासज्यवृत्तिरिति वर्णस्फोटपक्षः सिद्धः ॥ ६३३ ॥ इति वर्णस्फोटविवरणम् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy