________________
३९४ दर्पणपरीक्षासहिते भूषणसारेकल्पना नेति लाघवम् । साधकान्तरमाह--*व्यवहृतेरिति* ॥ व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः। स च श्रयमाणतिङादिष्वेवेति त एव वाचका इत्यर्थः। .. किञ्च,-*तधेतुन्यायत इति* ॥ लकारस्य बोधकत्वे, 'भू-ल' इत्यतोऽपि बोधापत्तिः स्यात् । तादृशबोधे 'भव-मति' इति
दर्पणः धकान्तरमुपन्यस्यतीत्याह-*साधकान्तरमिति*। *मुख्य इति । मुख्यत्वं च तस्मिन् शक्तिग्राहकान्तरनिरपेक्षत्वम् । व्याकरणादिना शक्तिग्रहे नियमे तद्ग्राहकान्तरापेक्षणात् । *सचेति । व्यवहारजन्यशक्तिग्रहश्चेत्यर्थः । *तिङादिष्वेवेति । व्यवहारेण पूर्ववाक्ये तद्ग्रहेऽप्यावापोद्वापाभ्यां पश्चात्तघटकतिडादिष्वेव तन्निर्णयादिति भावः ।
ननु प्रयोगान्तर्गतवर्णेषु सर्वसिद्धव्यवहारेण शक्तिग्रहे घटमानयेत्याधन्तर्गतशबादीनामपि वाचकत्वापत्तिः। न च सेष्टा । विकरणानां नैरर्थक्यमिति सिद्धान्तव्याकोपात् । किञ्चाऽऽनयनादिव्यवहारस्य लोडायन्तप्रयोग विनाऽसम्भवेन तादृशप्रयोगान्तर्गतवर्णानां तेन तत्त्वसिद्धावपि तद्रहितवाक्यान्तर्गतवर्णेषु वाचकत्वमनुशासनेनैवेष्टव्यम् । तथाच तत्रादेशिनां वाचकत्वसिद्धवन्यत्राप्यादेशिषु सा कल्प्येत्यस्वरसा. दाह-*किञ्चेति ॥ *तद्धेत्विति* ॥ “तद्धेतोरेव तत्त्वे किं तेन" इति न्यायाकारः, लाघवमूलकश्चायं न्यायः । उभयोहेतुत्वे गौरवापत्तेः । सङ्गमयति-*लकारस्येति ॥ *बोधापत्तिरिति* ॥ भवनकर्तृबोधापत्तिरित्यर्थः । 'न केवल' इति न्यायात् केवलल. कारस्य प्रयोगानहत्वादु'भू' इत्युक्तम् । लकारदशायां शपोऽसम्भवान्न भवतीत्युपात्तम् । तथाच भवतीत्यत्रानुसंहिताल्लकाराद्यथा कर्तबोधस्तथा प्रत्यक्षश्रुतलकारादपि कर्तबोधापत्तिरिति भावः ॥
न चासाधुत्वज्ञान प्रतिबन्धकम् । शक्तत्वरूपसाधुताया अपि सत्त्वादपभ्रंशादपि बोधोदयेन तदीयज्ञानस्याप्रतिबन्धकत्वाच्चेति भावः ॥ *तादृशेति ॥ आपादितक
परीक्षा वच्छेदके निवेशेन कार्यमिति भावः । *साधकान्तरम्*-पूर्वसाध्यस्य हेत्वन्तरम् । एतेन बोधकत्वं यदि शक्तिः, तदा भवदुक्तिसङ्गतिः। तत्रैव तु विवादः, शक्तः सङ्केतरू. पतायाः परसम्मतत्वात् । तस्याश्च शक्तेरनुशासनेनादेशिष्वेव सिाद्धः । स्मरणप्रयुक्तकल्पनागौरवन्तु फलमुखत्वान्न दोषावहमिति परास्तम् । ____ आद्यशक्तिग्रहोपायव्यवहारस्यादेशविषय एव सम्भवेन तत्रैव शक्तेाय्यत्वा. दिति तिङादिष्वेवेतिव्यवहारेणादौ यद्यपि वाक्ये शक्तिग्रहः, तथाप्यावापोद्वापाभ्या. मुत्तरकालन्तद्धटकतिङादिष्वेव तनिश्चयेन भवत्सिद्धान्तविलोपापत्तिः। अतो व्यवहारेण यथा प्रथम वाक्ये शक्तिग्रहेऽपि पश्चात्त्यागः, तथादेशेषु जातशक्तिग्रहेऽप्यप्रामाण्यकल्पनास्तु, किन्त्वनुशासनसहायेन यत्र शक्तिनिश्चयः, तेषामेव वाचकत्वमस्त्वित्या. देशिनां वाचकत्वसिद्धिरत आह-*किञ्चेति । *न्यायत इति । तद्धेतोरेव तत्स्यात् किन्तेनेति भावादित्यर्थः । लाघवमूलकमिमं न्यायं सङ्गमयति-*लकारस्येत्यादिना । *बोधापत्तिः*-काद्यर्थबोधापत्तिः। केवललकारस्य प्रयोगानर्हत्वात् , भूशब्दसाहित्येनैव प्रयोगदर्शनम् । *तादृशबोधे*-भवनादिविशिष्टकादिविषयकबोधे । *भवतीति ।