________________
• क्त्वाद्यर्थनिर्णयः।
३८१
उक्तश्च वाक्यपदीये
प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्भ्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति ॥ किश्चान्यथा कर्मणोऽपि क्त्वार्थतापत्तिः। 'पक्त्वौदनो मया
दर्पणः क्रियाद्वयनिरूपितकर्तृशक्त्योरनेकत्वेऽपि प्रधानतिङन्तार्थक्रियानिरूपितकर्तशक्तरा. ख्यातेनाभिधाने तत्र कृदन्तार्थक्रियानिरूपिततत्तच्छक्तरेनभिहिताया अप्यभिहितत्वातिदेशस्य अनभिधाने त्वनभिहितत्वातिदेशस्य चोक्तभाष्यप्रामाण्येनाऽभ्युपगमान्न तृतीयापत्तिः प्रकृते इति भावः । ___*प्रधानेतरयोरिति । गुणप्रधानक्रियानिरूपितशक्तिद्वयं यत्रैकस्मिन् द्रव्ये तत्र गुणक्रियानिरूपितशक्तिः प्रधानक्रियानिरूपितशक्तिधर्ममनुरुणद्धीत्यर्थः। उक्तातिदेशेऽपि तत्सम्मतिमाह-*प्रधानविषयेति । प्रधानः विषयो निरूपकं यस्याः सा शक्तिर्यदा प्रत्ययेन तिकाऽभिधीयते, तदा गुणक्रियावाचकधातूत्तरप्रत्ययेनाऽनभिहिताप्यभिहितवत् प्रतीयत इत्यर्थः । इदमुपलक्षणम् । अभिहिताया अपि अनभिहितवत्प्रतीतेः। 'तत्र प्रासादे आस्त' इत्युदाहर्तव्यम् । अवश्यं चेत्थमभ्युपेतव्यम् । अन्यथा कर्तुः क्त्वार्थत्वाभ्युपगमेनोक्तस्थले तृतीयापत्तिवारणेऽपि, 'पक्त्वौदनो मया भुज्यते' इत्यत्रौदनपदोत्तरद्वितीयापत्तिर्दुर्वारा। तत्र पाकक्रियानिरूपितकर्मत्वशक्तेः कृतानभिधानादुक्तरीतेरसम्भवादित्याह-*किञ्चेति । . अत्रेदम्बोध्यम्-यदौदने पाकक्रियानिरूपितकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं, न तु प्रधानक्रियानिरूपितकर्मत्वस्यापि तदौदनं पक्त्वा भुज्यते इत्यपि साधु । ओदनस्य भोजनकर्मताया आर्थिकत्वात् । यदा तूभयकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं,
परीक्षा *प्रधान इति*, *क्रिययोरिति-निरूपितत्वं सप्तम्यर्थः । *द्रव्यस्येति । निष्ठत्वं षष्टयर्थः । *शक्तिः-कर्मत्वकर्तृत्वादिः । *गुणाश्रया*-गुणीभूतक्रियानिरूपिता। अ. नुरोधन्दर्शयति-*प्रधानविषयेत्यादिना* । गुणे*-गुणीभूतक्रियायाम् । सप्तम्यर्थों निरूपितत्वम्-तस्यानुक्तेत्यत्रान्वयः । एवञ्च प्रधानम्प्रधानीभूता क्रिया विषयोनिरूपकं यस्या एतादृशी शक्तिः कर्मत्वादिर्यदा प्रधानक्रियाप्रतिपादकधातूत्तरजाततिङा कृता वाभिहिता भवति, तदा गुणभूतक्रियानिरूपिताशक्तिरनभिहितापि अ. भिहितवत्प्रकाशते । तेनाप्रधानक्रियानिरूपितशक्त्यभिधायकोऽनभिहिताधिकारीयः प्रत्ययो नेति सिद्धम् । अत एव 'पक्त्वौदनो भुज्यत' इत्यत्र कदापि द्वितीया नभवति।
तदेवाह-किञ्चेति । *अन्यथा-"प्रधानेतरयोः" इति न्यायानङ्गीकारे । यदा तु गुणीभूतक्रियानिरूपितकर्मत्वस्यैव विवक्षा प्रधानक्रियाकर्मत्वाविवक्षा, तदा 'पक्त्वोदनं भुज्यते' इति भवत्येव । एवञ्च "प्रधानेतरयोः" इति न्याय उभयनिरूपितकर्म. त्वस्य युगपद्विवक्षायां द्रष्टव्यः। किञ्चात्र शक्तिरिति सामान्यतोऽभिधानेन यत्र