________________
क्त्वाद्यर्थनिर्णयः।
३७९ यक्षु “समानकर्तृकयोः (पा० सू० ३।४।२७) इति सूत्रात् समानकर्तृकत्वं क्त्वावाच्यम् । अन्यथौदनं पक्त्वाऽहं भोक्ष्ये इत्यत्र मये
दर्पणः नामप्रयोग' इति न्यायादिति भावः ॥ तथा च "समानकर्तकयोः” इति निर्धारणे षष्ठी । “पूर्वकाल" इति च षष्ठयर्थे बहुव्रीहिरिति कैयटाशयः । वाक्यार्थस्तु पूर्वमेवोक्तः ।
न च पूर्वकालस्य पूर्वादिशब्देनाऽभिधाने क्त्वोऽसाधुत्वे 'पूर्व भुक्त्वा पश्चाद् व्रजति' इत्यत्र क्त्वाऽनुपपत्तिस्तदवस्थैवेति वाच्यम् । भाष्यकृतैव तत्समाधानात्। तथाच भाष्यम्-"नैतत् क्रियापौर्वकाल्यं, किं तर्हि कर्तृपौर्वकाल्यमेतत् । पूर्वमसौ भुक्त्वाऽन्येभ्यो ब्रजितृभ्यः पश्चाद् व्रजति" इति अन्येभ्यो भोक्तृभ्यः पूर्व भुक्त्वाऽपरेभ्यो गन्तृन्यः पश्चाद् व्रजतीत्यर्थे साधनाऽन्तरक्रियापेक्षे पौर्वकाल्यमादाय "विभाषाग्रह" (पा०सू० ३।१।१४३) इति क्त्वः सम्भव इति तदाशयः । __नव्यास्तु-'पूर्वकाल' इति कर्मधारयः। 'भूत' इति तु नोक्तम् । पर्यायशब्दत्वात् तेन रूपेण बोधाननुभवाच्च । तथाच समानकर्त्तकयोरर्थयोर्मध्ये पूर्वकालविशिष्टा. र्थवृत्तिधातोः क्त्वेति सूत्रार्थः । तथाच पूर्वकालः क्त्वार्थो धात्वर्थप्रकार एव । अत एव समानकर्तृकत्वेन पूर्व भुङ्क्ते पश्चाद् व्रजतीत्यत्र क्त्वाप्रत्ययमाशय स्वशब्देनोपादितत्वान्नेति परिहृतं भाष्ये । पूर्वशब्दस्य पूर्वकालोऽर्थो, न तु धातोस्तत्र वृत्ति. रिति तदर्थो, न तु 'उक्तार्थानामप्रयोग' इति । अत एव "इह कस्मान्न भवत्यास्यते भोक्तुम्" इत्यग्रिमशङ्कासङ्गतिः। अन्यथा फलार्थकतुमुना पूर्वकालत्वस्यासिक्रियायां द्योतनात् तदसतिः स्पष्टव । पूर्वकालत्वस्य ततोऽप्रतीतौ तु कथं क्त्व आपादानं वास. रूपन्यायेन लटाऽसाधितमित्यन्यत् ॥ एवञ्च षष्ठ्याः सम्बन्ध वाचकत्ववदमीषामपि सम्बन्धवाचकत्वं सुवचमित्याहुः । ___अत्रेदं चिन्त्यम्-ननु धातोस्तत्र वृत्तिरित्यर्थे, आस्यते भोक्तुमित्यग्रिमशङ्कानुपपतेरुपष्टम्भकत्वेनोपन्यसनं शिथिलम् । यतः कैयटमतेऽप्यस्यार्थे पूर्वकालसम्बन्धित्वस्य केनचिदनभिधानेन "उक्तार्थानामप्रयोगः" इति न्यायानवतारादाशकोत्थानसम्भवात् । प्रत्ययवाच्यस्य कृत्प्रत्ययस्थले धात्वर्थविशेष्यताया नव्यानामपि सम्मतत्वेन पूर्वकालः क्त्वाऽर्थों धात्वर्थप्रकार एवेति पूर्वग्रन्थनिरोधश्च । न च द्योतकत्वाऽभ्युपगमादुक्तसङ्गतिः । षष्ठयाः सम्बन्धवाचकत्ववदमीषामपि सम्बन्धवाचकस्वमित्युत्तरग्रन्थविरोधात् । न च तदपि सुवचम् । समानकर्तकत्वादीनां वाच्यतायाः सूत्रादलाभात् । तस्मात् कर्मप्रवचनीयवत् क्रियासम्बन्धविशेषकत्वमेव क्त्वादीनामिति कैयटोक्तमेव सम्यगिति। ___ मतान्तरं दूषयितुमुपन्यस्यति-*यत्विति । *क्त्वावाच्यमिति* ॥ “समानकर्तृकयोः पूर्वकाले” (पा०सू० ३।४८१ ) इत्युभयोः पदयोर्बहुव्रीहित्वाविशेषेण पूर्वकालस्य वाच्यत्वमितरार्थस्य द्योत्यत्वमिति वैषम्ये बीजाभावादिति। वैषम्ये बाधक
. परीक्षा नैतत्-क्रियापौर्वकाल्यम्-किन्तर्हि कर्तपौर्वकाल्यमेतत्, पूर्व त्वसौ भुक्त्वाऽन्येभ्यो भोक्तृभ्यस्ततः पञ्चाद् व्रजतीति, अन्येभ्यो व्रजतृभ्यः" इति भाष्यघटकप्रतीकेत्यर्थः ।
विषयभावप्रयोगघटकयत्किञ्चित्पदबोध्ये क्त्वाप्रत्ययस्य वाचकत्ववादिमतन्निरस्य.