SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। तत्र निर्णीत एवार्थः सङ्केपेणेह कथ्यते ॥१॥ उद्धृत इति । अत्र 'अस्माभिः' इति शेषः। भाष्याऽब्धेः शब्दकौस्तुभ उद्धृत इत्युक्तिस्तु शब्दकौस्तुभोक्तानामर्थानामाधुनिकोत्प्रेक्षितत्वनिरासाय । अन्यथा तन्मूलकस्यास्य ग्रन्थस्याप्याधुनिकोत्प्रेक्षितसारत्वापत्तौ पाणिनीयानामनुपादेयतापत्तेः। तत्र निर्णीत इत्युक्तिरितोऽप्यधिकञ्जिज्ञासुभिः शब्दकौस्तुभे द्रष्टव्यमिति ध्वनयितुम् ॥१॥ अथ धात्वर्थनिर्णयः। प्रतिज्ञातमाह फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः। फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥ २॥ दर्पणः शिष्यावधानं बोध्यम् । ____ उद्धरणकर्ताकाङ्क्षायामाह-*अस्माभिरिति । मूले-*कथ्यत इति । हर्यादिनिबद्धकारिकाभिरिति शेषः ॥१॥ अथ धात्वर्थनिर्णयः । तत्र स्फोटस्यार्थबोधजनकत्वात् तेनैवाऽऽकाङ्गानिवृत्तेश्च वाक्यस्फोटस्य 'वाक्यस्फोटोऽतिनिष्कर्षे इत्यादिना सिद्धान्तयिष्यमाणत्वेऽपि प्रतिवाक्यं सङ्केतग्रहासम्भवात् तदन्वाख्यानस्य लघूपायेनासुकरत्वाच्च तत्र कल्पनया पदानि विभज्य तेष्वपि प्रकृतिप्रत्ययभागांस्तथैव प्रविभज्य, कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थेष्वपि प्रकृतिप्रत्ययानामनादिसङ्केतबोधनद्वारा साधुत्वान्वाख्यायके महर्षिप्रणीते शास्त्रे प्रक्रियानिहाय पदवर्णस्फोटावपि सम्मताविति दर्शयस्तिङन्तार्थप्रधाने सुप्तिङ्चयादिरूपे वाक्ये धात्वर्थस्य प्राधान्यात्तमेवादौ निरूपयितुमाह मूले-*फलव्यापारयोरिति । परीक्षा कर्तुमिष्टं यत्तत्कर्मिका भट्टोजिदीक्षितकतका प्रतिज्ञेति बोधः। प्रतिज्ञा च-निरूपणीयार्थविशेष्यनिरूपणविषयत्वप्रकारकज्ञानानुकूलव्यापाररूपा । स च व्यापारः शब्दोच्चारणमेव । उद्धृत इत्युक्तेः काकाङ्क्षा भवति। तच्छान्तये आह-*अस्माभिरिति । एतेन मूलस्था कारिका भट्टोजिदीक्षितकर्तृका इति सूचितम् । *कथ्यत इति । हादिनिबद्धकोरिकाभिरिति शेषः। । अथ धात्वर्थनिर्णयः । सिद्धान्ते वाक्यस्फोटस्यैव व्यवस्थापन भविष्यतिः तत्र वाक्यं सूपतिचयरूपम्। तयोरपि तिर्थस्य प्राधान्यमित्यादौ तिङन्तार्थो निरूपणीयस्तत्रापि धात्वर्थस्य प्राधान्येन भानादादौ धात्वर्थ निरूपयति-*फलक्यापारयोरित्यादिना* । सप्तम्यर्थो
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy