________________
नमर्थनिर्णयः ।
३११
दर्पणः
दृश्यते च - "यजत्रिषु येयजामहं करोति नानुयाजेषु" इत्यत्र नजा पर्युदासबोधः । उक्तवाक्ये यजतिशब्दो यागस्वरूपवचनः । तथाचाऽनुयाजभिन्नेषु यागेषु येयजामहशब्दवन्मन्त्रं करोति = उच्चारयतीत्यर्थः । अत एवात्रानुयाजभिन्नेषु यजतिषु येजजामहपदवन्मन्त्रप्रयोगरूपैकाऽर्थविधानादेकविधेयार्थकत्वरूपैकवाक्यत्वमुपपद्यते । अन्यथा यागेषु येयजामहपदवन्मन्त्रविधानमनुयाजेषु निषेधविधानमिति विधेयइयार्थकत्वरूपवाक्यभेदापत्तेर्येयजामहपदानुषङ्ग कल्पने गौरवाच्चेति भावः ॥
अन्येतु शास्त्रविहितप्रतिषिद्धत्वात्, षोडशिग्रहणाग्रहणवद्विकल्पापत्तेर्नाऽनुयाजेष्वित्यत्र नञः प्रतिषेधार्थकत्वम् । तथाहि क्रियायाः कारकसाकाङ्क्षत्वाद् विनिगमनाविरहेण सकलकारक विशिष्टां प्रतियोगिभूतां भावनामुद्दिश्याऽभावविधिस्तत्र वाच्यः । एवञ्चोद्देश्यस्य प्रसिद्ध्यर्थं तत्प्राप्तिरपेक्षिता । प्राप्तिसापेक्षत्वात् प्रतिषेधस्य । प्राप्तिश्च क्वचिद्रागतो, यथा “न कलजं भक्षयेत्” इति । तत्र कलञ्जभक्षणादे रागत इष्टसाधनत्वाऽवगत्या प्रसक्तायाः कलञ्जभक्षणभावनाया निषेधशास्त्रेण निवृत्तिविषयत्वेsaगतेऽर्थात् तद्विषयकलअभक्षणस्यानिष्टसाधनत्वाक्षेपात् ततो निवृत्तिः॥ प्रकृते तु 'येयजामहङ्करोति, इति शास्त्रादेव सा । एवञ्च निषेधस्य शास्त्रविषयत्वेन प्राबल्यवद् विधिशास्वस्याऽप्युपजीव्यत्वेन प्राबल्यान्निषेधेन विधेरत्यन्तबाधायोगाद् विकल्प एव प्राप्नोति
विकल्पे च 'ब्रीहिभिर्जुहोति' 'यवैर्वा जुहोति' इत्यादौ प्रथमं व्रीह्यनुष्ठाने वेदस्य विपर्यासरूपमितिजनकत्वासम्भवाद्यवशास्त्रस्याप्राप्ताप्रामाण्यस्वीकारः, प्रतीताप्रामाण्यपरित्यागश्चेति दोषद्वयम् । प्रयोगान्तरे यवोपादाने यवशास्त्रस्य स्वीकृताप्रामाण्यपरित्यागः परित्यक्तप्रामाण्योपादानञ्चेति दोषद्वयमिति चत्वारो दोषाः । पुनस्तृ
परीक्षा
वचनानां सन्निहित पदार्थबोधकत्वमसति बाधके इत्यस्य स्वीकारात्तथा प्रकरणादिना 'अब्राह्मणमानय' इति वाक्यघटकस्याब्राह्मणपदस्य “नह्यब्राह्मणमानयेत्युक्ते लोष्टमानीय कृती भवति' इति भाष्याब्राह्मणविशिष्टभेदाश्रये लक्षणा निरूढा अस्तीति कल्पनात् । साऽपि लक्षणा न समुदायस्य ; किन्तु नज एवोत्तरपदार्थविशिष्टभेदाश्रये लक्षणा, प्रतियोगिवाचकमुत्तरपदं तात्पर्य्यग्राहकमिति स्वीकारात् । नच नज्समासाभावे नजो भेदार्थकत्वे प्रतियोग्यनुयोगिनोरभेदेनान्वयाभावात् तद्वाच कपदयोः समानविभक्तित्वानुपपत्तिरिति वाच्यम् । यत्र न समभिव्याहाराभावे प्रतियोग्यनुयोगिनोरभेदान्वयबोधौपयिकाकाङ्क्षातत्रैव नजो भेदार्थकत्वम् । तादृशी चाकाङ्क्षा प्रतियोगिनोः समानविभक्तिकत्व एव भवति । अत एव 'भूतले न घट' इत्यत्र नजो भेदार्थकत्वम्, किन्त्वत्यन्ताभावार्थकत्वमितिप्रवादः साधुरेव । एवञ्च प्रतियोग्यनुयोगिनोः समानविभक्तिकत्वे भेदार्थकत्वोपजीव्यम् । अत एव "प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ” इत्यस्यापि प्रवादस्य नानुपपत्तिरित्याशयात् । तदर्थश्च नञोऽभावे यद्धर्मावच्छिन्ने येन सम्बन्धेन प्रतियोगिनः प्रकारतया भानम्, नजूसमभिव्याहारे तत्र तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य प्रकारतेति । अत एव 'जतिषु येयजामहे; 'करोतिनानुयाजेषु' इत्यत्र नञः पर्युदासपरतया एकवाक्यतेति सिद्धान्तोपपत्तिः । अत्र जयतिशब्दो यागपरः । येयजामहशब्दो येयजा