________________
३०४
दर्पणपरीक्षासहिते भूषणसारे
। परीक्षा नियमनम् । विप्रयोगस्तादृशसम्बन्धध्वंसः । तेन यथा अशङ्खचक्रो हरिरवत्सा धेनुरानीयतामित्यादौ ध्वंसस्य प्रतियोगिपूर्वकत्वेन प्रतियोगिनो यन्निर्णायकता तस्मिन्नेव शक्तिनियमनं तेन क्रियते । साहचर्यम्-सहचरणं सादृश्यम् । यथा-रामलक्षणा. वित्यादौ । अत्र परस्परसाहचर्येण युगपदेवोभयोः शक्तिनियमनमित्यन्योन्याश्रयो न । सदृशयोरेवे सहप्रयोगात् । अत एव सडच्यासंज्ञासूत्रे भाष्ये-“वतुसाहचर्यात्तद्धित एव डतिर्गह्यते, न तु पातेडेतिः"इत्यभिहितम् । तेनोभयोरामलक्ष्मणयोश्शक्तिप्रतिपादकत्वम् । विरोधिता-विरोधः । सहानवस्थारूपो वध्यघातकभावो वा। आद्योदाहरणम्-छायातपाविति । अत्रातपेन सहानवस्थानियमाच्छायाशब्दस्यातपाभावप्रतिपादकता । न तु शोभाप्रतिपादकतेति निर्णयः । न च छायाशब्दः शोभाप्रतिपादको नेति भ्रमितव्यम् ।
ग्रामतरुणं तरूण्या नवमञ्जलमलरीसनाथकरम ।
पश्य सा भवति मुहुर्नितराम्मलिना मुखच्छाया ॥ इत्यत्र दर्शनात् । अत्र मञ्जुलनिकुञ्ज दत्तसङ्केतायास्तरुण्या मुखशोभा तत्र गमनसूचकतादृशतरुणदर्शनजनितदुःखविशेषेण मलिना भवन्ति । द्वितीयोदाहरणम्विरोधिनोः कयोश्चित्तत्वोपमायां रामार्जुनगतिस्तयोरित्यत्र रामार्जुनपदयोर्भागवकार्तबीर्यप्रतिपादकता । अर्थः-प्रयोजम् । तेन यथा-'स्थाणु भज भवच्छिदे' इत्यत्र भवच्छेदनरूपप्रयोजनेनस्थाणुशब्दस्य शिवे । अस्यैव मुख्यतया निर्णायकता संयोगादयस्तद्वयञ्जकप्रपञ्च इति तु परैरुक्तम् । यथा वा-'अञ्जलिना जुहोति' 'अञ्जलिना सूर्यमुपति. ष्ठते' इत्यत्र जुहोत्यादिपदार्थवशादञ्जलिपदस्य तत्तदाकाराञ्जलिपरत्वम् । प्रकरणम्प्रस्तावः, समयविशेषो वा । यथा-'सैन्धवमानय' इत्यत्र भोजनसमये सैन्धवपदस्य लवणे इत्यादि। लिङ्गान्मित्रशब्दस्य नपुंसकत्वात् सुहृदि। मित्रो भातीत्यत्र तु पुंलिङ्गात् सूर्ये । स्वरत एतादिर्बाहुल्येन वेदेऽर्थविशेषस्य प्रतीतिकृत् । यथा-इन्द्रस्य शातयितेत्यथेऽन्तोदात्ते उच्चारयितव्ये आधुदात्त इन्द्रशत्रुशब्दः इन्द्रशत्रुर्वर्द्धस्व' इत्यत्र ऋत्विजा उच्चारितस्तेनेन्द्र भयम् । एवं 'शातयिता सम्पन्न' इति भाष्ये स्पष्टम् । यद्ययमन्तोदात्तस्तदा षष्ठीसमासः, यदा इन्द्रः शत्रुर्यस्येत्यर्थस्तदा “बहुव्रीहौ प्रकृत्या पूर्वपदम्" इत्युदन्तं तच्चादायुदात्तस्येन्द्रशब्दस्य पररपरस्तस्यैवावस्थानमिति शातनकर्तृत्वमिन्द्रस्य लभ्यत इति स्वरादय इत्यादिपदेन षत्वस्य णत्वाभिनययदेशानां ग्रहणम् । षत्वेन यथा-सुषिक्तमित्यत्र सुशब्दस्योपसर्गसज्ञाप्राप्तायां बाधित्वा पूजायां कर्मप्र. वचनीयसंज्ञा, "सुः पूजायाम्" इत्यनेन विधीयते । सा चोपसर्गसंज्ञाबाधिकेति प्रकृतो. दाहरणे षत्वदर्शनेन पूजातिरिक्तार्थकत्वम् । णत्वेन यथा-प्रणायक इति । अत्र णत्वदर्शनेन प्रशब्दस्योपसर्गत्वनिर्णयः। प्रनायकइत्यत्र णत्वाभावदर्शनेन प्रगतनायकस्य प्रतीतिः । अभिनयश्चार्थाकारादिप्रदर्शिका हस्तादिचेष्टा तदुदाहरणमुक्तं का. व्यप्रकाशे
(१)एदहमेतत्थणिआ एतद्दहमेतेहि अच्छिवत्तेहिं ।
एद्दहमेत्तावत्था एइहमेतेहि दिअएहि ॥ का० प्र० उ०२ । ११ श्लोकः छाया-(१) एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् ।
... एतावन्मात्रावस्था एतावन्मात्रदिवसः ॥