________________
२७३
दर्पणपरीक्षासहिते भूषणसारे -
दर्पणः
पया गङ्गापदनिरूपिता वृत्तिर्न शक्तिस्तस्यास्तत्रा भावादतस्तीरस्मारिका काचिदन्यैव वृत्तिः कल्प्यते । सा च गङ्गापदशक्यसामीप्यरूपैव तेन रूपेण गृह्यमाणा तीरं स्मारयत्यनुभावयति च । शक्यादशक्योपस्थितिस्तु न लक्षणा । उपस्थितिहेतोस्तस्यास्तत्वासम्भवात् । नापि स्वबोध्यसम्बन्धः । समासशक्तिनिरूपणोक्तयुक्तेः ।
नन्वीश्वरेच्छायाः शक्तित्वासम्भवः, घटपदस्यापि पटे शक्तत्वप्रसङ्गाद्, घटपदात् पटो बोद्धव्य इतीच्छाया विषयतया पटेऽपि सत्त्वात् । यदि चेश्वरेच्छीयघटपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वं शक्तिरिति न पटपदेऽतिप्रसङ्गः । तद्विषयत्वेऽपि तादृशविषयत्वनिष्ठप्रकारतानिरूपित विशेष्यत्वस्य तत्रानभ्युपगमादित्युच्यते, तदापि गङ्गापदात् तीरबोधस्यापि जायमानत्वेन सन्मात्रविषयकेश्वरेच्छीयगङ्गापदजन्यबोधविषयत्वप्रकारता निरूपित विशेष्यत्वस्य तीरे सत्वाच्छक्त्यैव निर्वाहे कृतं लक्षणयेति चेद् ? न ।
गङ्गापदवाच्यत्वव्यवहारस्य तीरादावसत्वेन गङ्गापदजन्यबोधविषयतात्वावच्छिन्न प्रकारतानिरूपितविशेष्यत्वसम्बन्धेन ईश्वरेच्छीयगङ्गादिपदानां प्रवाहादौ शक्तिस्तीरनिष्ठविशेष्यतायाश्च गङ्गादिपदजन्यबोधविषयत्वप्रकारतानिरूप्यत्वेऽपि न तस्मात् तादृशविषयतात्वेन तादृशप्रकारतानिरूपितत्वमपि तु शुद्धविषयतात्वेनैवेत्यभ्युपगमान्न तया लक्षणान्यथासिद्धिर्नाऽपि विषयत्वलक्षणसम्बन्धस्य पदे जन्यजनकभावे च सत्त्वेऽपि तत्रातिप्रसङ्गः ।
तत्र लक्ष्योपस्थितिनियामकः सादृश्यात्मकः सम्बन्धो गौणी, तदतिरिक्तस्तु शुद्धलक्षणेति व्यवहियते । शुद्धाऽप्युपादानलक्षणभेदेन द्विविधा । तत्र मुख्यसंसृष्टान्यार्थोपस्थापकत्वमुपादानत्वम् । शक्याऽविषयकलक्ष्यार्थोपस्थितिजनकत्वं लक्षणा - त्वम् । 'यष्टीः प्रवेशय' 'गङ्गायां घोष:' इत्यादिके यथायथमुदाहरणे । तत्राऽप्याद्याऽजहत्स्वार्थाऽन्त्या च जहत्स्वार्थेत्युच्यते । तद्भेदान्तराणि त्वन्यतोऽवधार्याणीति नैयायिका आहुः ।
मीमांसकास्तु — उक्तयुक्त्या लाक्षणिकपदस्य वाचकत्वपरिहारेऽपि नेश्वरेच्छायाः शक्तित्वम् । ईश्वरस्यैवाऽनभ्युपगमात् । नन्विच्छाया ईश्वरीयत्वमनुपादेयम् । एवं चाssधुनिकसङ्केतज्ञानादपि शाब्दबोधोदयेन तादृशसङ्केतस्य वृत्तितानिर्वाहः । आधुनिकसङ्केतत्वेन तात्पर्य्यस्याऽपि वृत्तित्वप्रसङ्गस्तु न, पदार्थोपस्थितिनियामकसङ्केतस्यैव वृत्तित्वेन तस्यास्तत्त्वात् । तज्ज्ञानस्य साक्षादेव शाब्दधीजनकतया पदार्थोपस्थित्यात्मकव्यापाराऽनपेक्षणाद् वृत्युपस्थापितार्थं एव प्रकरणादिना तद
वधारणात् ।
आधुनिकसङ्केतितडित्थादिपदेषु त्वाधुनिकसङ्केतस्य प्रागवधारितस्य डित्था - दिव्यक्तिशाब्दधीजनकपदार्थोपस्थितौ नियामकत्वेन तद्वृत्तित्वस्य सौलभ्यादिति चेदेवमपि स तस्य निष्प्रतियोगिकतया तदीयोक्तविषयत्वस्याऽप्यापातरमणीयतया सम्बन्धित्वाऽसम्भवेन पदार्थाऽनुपस्थापकत्वादवृत्तित्वानिर्वाहात् । तस्मात् पदपदार्थयोर्वाच्यवाचकभावनियामकः सम्बन्धः पदार्थान्तरमेव । नाप्यसौ समवेतः । अभावादावपि सत्वात् । किन्तु वैशिष्ट्याख्येन सम्बन्धान्तरेण वर्त्तत इत्याहुः ।