SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । २७३ तथा च "नानार्थे तात्पर्य्यात् विशेषावगतिः” इति न्यायेन तत्कल्पनायां पदद्वयेन पूर्वोपस्थितार्थे एवोपस्थित्यादिलाघवात् तत् कल्प्यत इति । परेषामपि सति तात्पर्ये, 'यष्टीः प्रवेशय' इति - दर्पणः सन्देहे सति । *तत्कल्पनायाम् । तात्पर्य्यकल्पनायाम् । *पूर्वोपस्थितार्थ एवेति । समासघटकप्रत्येकपदशक्त्युपस्थापिताऽर्थ मात्रविषयककर्मधारयीयशक्तिग्रहस्यान्तरङ्गत्वेन प्रथमोपस्थिताऽर्थ एवोपस्थितिर्लाघवान्निषादस्थपतिशब्दस्य तात्पर्य्यमवसीयते, तेन विशेषाऽवगतिः । न तु बहिर्भूतपदार्थविषयकशक्तिग्रहोपस्थापिते, तदुपस्थितेर्विलम्बितत्वादित्याखण्डलाऽर्थः । . निरुक्तव्यपेक्षैव सामर्थ्य मूलकृदभिप्रेतमित्यर्थे इदमपि प्रमाणम् । अन्यथा जहस्वार्थवृत्तिपक्षे पदानामानर्थक्यात् प्रत्येकपदवृत्याऽर्थोपस्थितेरसम्भवेन क्व तन्मूलकशक्तिग्रह इति तस्यान्तरङ्गत्वकथनमसङ्गतमेव स्यादिति बोध्यम् । *तत्*—तात्पर्य्यम् । *कल्प्यते*-अवधाय्र्यंते । ननु "संयोगो विप्रयोगश्च" इत्यादिना हरिणा संयोगादीनां विशेषावगतिहेतुत्वं बोध्यते, तत् कथं तात्पर्य्यस्य विशेषावगतिहेतुत्वमिति चेद् ? न । नानाशक्त्युप.. स्थिताऽनेकेषु संयोगादनेकस्मिन्नवधारिते तात्पय्यें विशेषावगतिरिति शब्दाऽर्थस्याSनवच्छेद इति भावाऽर्थस्य वक्ष्यमाणत्वात् । संयोगादीनां तात्पर्य्यग्राहकतायामेवोपयोगेन तात्पर्य्यस्य विशेषावगतिहेतुत्वं सर्वसम्मतमेवेति भावः । ननु प्रत्येकपदवृत्ति पक्षेऽनायासेनैवाधिकरणसिद्धान्तोपपत्तौ विशिष्टशक्तिपक्षे तादृशसिद्धान्तसमर्थ ने क्लेशो दुष्परिहर एवेत्यत आह-*परेषामपीति । * प्रवेशयेतिवदिति । तात्पर्य्यस्यैव लक्षणानियामकतया तत्सत्त्वे वाक्यलक्षणया समासान्तरबोधय दुर्वारतया तात्पर्य्याभावेनैव तदवगतेर्वारणीयत्वादित्यर्थः । ननु “निषादस्थपतिं याजयेत्” इत्यत्र स्थपतिशब्दः स्वामिपर्य्यायः, श्रेष्ठपर्यायो वा उभयथाऽप्यसौ गुणवचनः । तस्य च जातिवचननिषादपदेन कर्मधारये तत्र गुणवचनस्यैव पूर्वनिपातनियमेन स्थपतिनिषादमिति प्रसज्ज्येत, नतु निषादस्थपतिमिति स्यात् । किञ्च उभयथापि स्थपतिशब्दार्थस्य नित्यं सम्बन्धिसापेक्षत्वेन षष्ठीसमास एव न्याय्यो, न तु कर्मधारय इति कथमुक्तसिद्धान्तसङ्गतिः, प्रकृतेऽपीत्यत परीक्षा सार्थभेदेन नानार्थम् । *तत्कल्पनायाम् * - शक्तिग्रहकल्पनायाम् । *पूर्वोपस्थितेति । समासघटक प्रत्येकपदशक्त्युपस्थितार्थमात्रविषयकर्मधारयसम्बन्धिशक्तिग्रहस्यान्तरङ्गत्वेन प्रथमोपस्थितार्थे एवोपस्थितिलाघवान्निषादस्थपतिशब्दस्य तात्पर्य्यमति निश्वी ३५ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy