________________
समासशक्तिनिर्णयः।
२५१ नेनानेकसुबन्तानामन्यपदार्थप्रतिपादकत्वेन तद्विधानात् ।। ...
किञ्चैवं सति घटाऽऽदिपदेष्वपि चरमवर्ण एव वाचकताकल्पना स्यात् । पूर्वपूर्ववर्णानां तात्पर्य्यग्राहकत्वेनोपयोगसम्भवात् । एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरितिचेद् ? अत्राप्युदकपदमात्रश्रवणादर्थप्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः।
एवञ्च, अषष्ठयर्थबहुव्रीहौ, व्युत्पत्त्यन्तरकल्पना, उक्तयुक्तः ।
दर्पणः
तद्विधानादित्यर्थः। - अयम्भावः-वृत्तेविशिष्टार्थकत्वं न शास्त्रैकगम्यम् । “अचतुर” इत्यादावर्थाऽनादेशनात् । किन्तु लौकिव्यवहारगम्यम् । "स्वभावत एव तेषां शब्दानामेष्वर्थेष्व. भिनिविष्टानां निमित्तत्वेनान्वाख्यानं क्रियेत" इति समर्थसूत्रभाष्यात् । “अनेकमन्यपदार्थ (पा०स०२।२।२४) "चाथै द्वन्द्वः" (पासू० २।२।२९) इत्यादीनामनेकम्प्रथमा. न्तमन्याऽर्थप्रतिपादक बहुव्रीहिसंज्ञकं भवति, चाऽर्थे वर्तते यः प्रथमाऽन्तसमुदायः स द्वन्द्वसंज्ञको भवतीति क्रमेण लोकसिद्धार्थाऽनुवादेन बहुव्रीह्यादिसंज्ञाविधायकत्वमा. त्रम् । अर्थस्याऽपि विधाने वाक्यभेदापत्तेः । स्वसमानार्थकवाक्यानिवृत्तये विभाषाधिकारोऽपि विधेय: स्यात् । एवञ्च सुबन्तसमुदायस्याऽन्यार्थप्रतिपादकत्वे, कथं बहुव्रीहिः स्यादिति। - नन्वेकपदस्याऽन्यार्थप्रतिपादकत्वे तात्पर्य ग्राहकतयापरपदस्याप्युपयोगित्वेन समुदायस्य विशिष्टार्थप्रतिपादकत्वमविकल्प्यमत आह-*किञ्जैवमिति* ॥ समासस्थचरमपदस्यैव लक्षकत्वे सतीत्यर्थः ॥ इष्टापत्तावाह-*एवं सतीति ॥ चरमवर्णस्य वाचकत्वे सतीत्यर्थः॥ *अत्रापि । प्राप्तोदकादावपीत्यर्थः ॥ *आपत्तिरिति* ॥ आपायव्यतिरेकनिर्णयकालिकाऽऽपाचव्याप्यापादकवत्ताज्ञानसत्त्वादिति भावः ॥
ननूदकपदमात्रश्रवणान्न लक्ष्याऽर्थबोधः, तदानी लक्षणाकल्पिकायास्तात्पर्यग्राहकपूर्वपदोपस्थितेरभावादत आह-*अन्यत्रेति ॥ भूषणे इत्यर्थः । *विस्तर इति । उत्तरपदलक्ष्याऽर्थे प्रकृत्यर्थत्वाऽभावेन तत्र प्रत्ययाऽर्थाऽन्वयाऽऽपत्तिरित्यादि तत्रोक्तम् ॥ *व्युत्पत्तीति* ॥ व्युत्पत्तित्यागः प्रकृते प्रतिज्ञाहानिरेव ॥ व्यपेक्षावा
परीक्षा नन्वेकस्य पदस्य लक्षणा-अपरस्य पदस्य तात्पर्य्यग्राहकताऽऽश्रीयते, तावतैवानेकपदस्यान्यपदार्थप्रतिपत्त्युपयोगिताऽस्तीति नानुपपत्तिरत आह-*किञ्चेति । *एवं सति-चरमपदस्यैव लक्षकत्वे सति । *उपयोगसम्भवादिति । तथाच घटादिशब्दानां घटादिवाचकत्वव्यवहारोच्छेदापत्तिः । ननु तथैवास्त्वित्यत आह*एवं सतीति । चरमवर्णमात्रस्य वाचकत्वे सति । ननु पूर्वपदोपस्थितिस्तात्पर्य्य ग्राहिका सा नास्तीति नोदकपदमात्रश्रवणेऽर्थप्रत्ययापत्तिरत आह-*अन्यत्र विस्तर इति । उत्तरपदमात्रस्य लक्ष्यत्वञ्चेल्लक्ष्यार्थः, प्रकृत्यर्थो न स्यात्तत्त्वस्य समुदायपर्याप्तत्वादिति तादृशार्थे प्रत्ययार्थानन्वयापत्तिः । प्रत्ययानाम्प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेरिति समुदायस्य वाचकत्वमभ्युपेयमिति शङ्कानुत्थानायाह