________________
सुबर्थनिर्णयः।
१७९
आपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदविशात्तदपादानमुच्यते ॥ पततो ध्रुव एवाश्वो यस्मादश्वात् पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ॥ उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मके । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक पृथक । .
मेषयोः स्वक्रियापेक्षं कर्तृत्वञ्च पृथक् पृथक् ॥ इति। अस्यार्थः-अपाये विश्लेषहेतुक्रियायाम् । उदासीनम्अनाश्रयः। अतदावेशात्=तक्रियानाश्रयत्वात् । एवञ्च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं फलितम् । वृक्षात् पणं पततीत्यत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोऽश्वात् पततीत्यत्राश्वस्य क्रियाश्रयत्वाद्विश्लेषत्विति । कुड्यात् पततोऽश्वात् पततीत्यत्राऽश्वस्य विश्लेषजनकक्रियाश्रयत्वेऽपि तन्न विरुद्धमित्याह-*यस्मादश्वादिति । तद्विश्लेषहेतुक्रियानाश्रयत्वे सतीति विशे
दर्पणः र्थः । अवधित्वं च, प्रकृतधात्वर्थविभागजनकतक्रियाऽनाश्रयत्वे सति प्रकृतधात्वर्थजन्यविभागाश्रयत्वम् , करणादिकारकेऽतिव्याप्तिवारणाय विशेष्यम् । यत्किञ्चित् क्रियाजन्यविभागस्य तत्रापि सत्त्वादतिप्रसङ्गतादवस्थ्यमतस्तविशेषणम्-प्रकृतेति । एवञ्च वृक्षात् पततीत्यादौ विभागजनकक्रिया पतत्यर्थः । यद्वक्ष्यति-यत्र धातुना गतिनिर्दिश्यते तन्निर्दिष्टविषयमिति । अधिकं हरिपद्यव्याख्याऽवसरे ग्रन्थकृतैव स्फु. टीकरिष्यते। ___ उदासीन-विभागजनकक्रियानाश्रयः तद्वैविध्यमाचष्टे-*चलमित्यादि । चलोsश्वादिरचलो प्रामादिः ॥ *तक्रियानाश्रयत्वादिति । तद्विभागजनकतत्क्रियाऽनाविष्टत्वादित्यर्थः॥ क्रियाश्रयत्वादिति ॥ स्थाचाऽव्याप्तिरिति भावः ॥ *विशेषणीयमिति । तथाच विभागस्तत्तव्यक्तित्वेन निवेशनीय इति भावः। समाधत्ते-प्रविभक्त त्वित्यादिना* । तत्तन्मेषवृत्तित्वविशिष्टत्वेन भिन्नतयाऽवगत इत्यर्थः । *व्यवस्थिते इति । तत्तन्मेषवृत्तित्वविभागजनकक्रिये तत्तन्मेषानाश्रिते भवत एवेत्यर्थः । तदेवाऽऽह-*मेषान्तरक्रियापेक्षमित्यादि* । परस्परपदोपात्तयोरपादानत्वं, तत्तत्क्रियाश्रयत्वान्मेषपदोपात्तयोः कर्तृत्वञ्चोपपद्यत इत्यर्थः। तत्तद्वयक्तित्वेनाऽपि धात्वर्थ
परीक्षा शब्दस्य निश्चलार्थकत्वं प्रकृते नास्तीति सूचितम् । तस्याः-क्रियायाः, आवेशस्तदावेशः, तत्क्रियाश्रयत्वं तदभावादित्यर्थः। फलितार्थमाह-*एवञ्चेति । करणादिकारकेऽतिप्रसङ्गवारणाय विशेष्यदलम् । अत्र करणस्य यत्किञ्चित् क्रियाजन्यविश्लेषाश्रयत्वादतिप्रसङ्गतादवस्थ्यमतो विश्लेषे प्रकृतधात्वर्थक्रियाजन्यत्वं विशेषणं देयम् ।