SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः। १५७ धस्तु तण्डुलसमवेतधात्वर्थतावच्छेदकविक्लित्त्यनुकूलतण्डुलान्यसमवेतक्रियाजनककृतिमाँश्चैत्र इत्याहुः । तन्न रोचयामहे; परसमवेतत्वादेर्गौरवेणावाच्यत्वात् । अतिप्र. सङ्गः किं द्वितीयायाः, शाब्दबोधस्य वा । नाद्यः । तावद्वाच्यकथनेऽपि तत्तावस्थ्यात् । गमयति कृष्णं गोकुलमितिवत् पाचयति कृष्णं दर्पणः काभावो नन्समभिव्याहारे बुद्धयते इति सकललोकानुभवसिद्धोऽयमर्थः । प्रतियोग्यभावाऽन्वयौ तुल्ययोगक्षेमौ' इति वदता दीधितिकृतोपनिबद्धः । एवञ्च-चैत्रो ग्राम गच्छतीत्यत्र नसमभिव्याहारे क्रियायां द्वितीयाऽर्थवृत्तित्वविशिष्टसंयोगजनकत्वस्य बोधात् तत्समभिव्याहारे तत्र तदभावस्य बोधो जायमानः केन वारणीयः। न च कारणाभावः । नर्थाभावप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे प्रतियोग्यन्वययोग्याऽर्थोपस्थितेहेतुतया तस्याश्च क्रियायां सत्वात् । न तु नमर्थनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन बोधे धातुजन्यभावनोपस्थितेतुता । चैत्रश्चैत्रं न गच्छतीत्यादिवाक्यानामप्रामाण्यापत्तेः । चैत्रकर्मकचैत्रकर्तृकगमनक्रियारूपप्रतियोगिनोऽप्रसिद्धया नना तदभावस्य बोधयितुमशक्यत्वात् । ___ मन्मते तु चैत्रकर्तृकक्रियायाम् चैत्रवृत्तिसंयोगजनकत्वेऽपि चैत्रवृत्तिभेदप्रतियोगितावच्छेदकत्वस्य तस्यामसत्त्वेन नजा तदभावस्य प्रत्यायनात् प्रामाण्योपपत्तेः । अत एव परसमवेतत्वस्य द्वितीयोपपत्तिरुक्तस्थले इति वाच्यम् । 'मैत्रो गच्छति चैत्रीन चैत्र' इत्यत्र मैत्रक्रियावच्छिन्नप्रतियोगिताकंभेदवत्त्वतदीयसंयोगाश्रयत्वयोरुभयोढितीयार्थयोरबाधेन तदुपपत्तेः । अधिकमग्रे वक्ष्यते । ___ तस्मात् 'चैत्रो गच्छति' इत्यादौ चैत्रो न कमेंति व्यवहाराच्च,. सर्वथा कर्तव्या. वृत्तं धात्वर्थव्यापारप्रयोज्यतव्यधिकरेणधात्वर्थफलाऽऽश्रयत्वं कर्मत्वं निर्वाच्यम् । तत्र फलव्यापारयोर्धातुलभ्यत्वेऽपि वृत्तित्वे भेदप्रतियोगितावच्छेदकत्वपर्य्यवसिते वैयधिकरण्ये च द्वितीयादेः शक्तिरनन्यलभ्यत्वात् स्वीकरणीयेति । प्रकृतमनुसरामः॥ ___ *विक्लित्त्यनुकूलेति । इदं तण्डुलाऽन्यसमवेतक्रियाऽन्वयि । यथाश्रुतं दूषयति*तन्न रोचयामहे इत्यादिना । ननु परसमवेतत्वस्य द्वितीयार्थत्वं विनाऽतिप्रसङ्गाऽनिरासाद् गोरवं न दोषायेत्यत आह-*अतिप्रसङ्गः किमिति*। *तावदिति । परसमवेतक्रियाजन्यधात्वर्थताऽवच्छेदकफलशालित्वरूपकर्मत्वस्य द्वितीयार्थत्वस्वीकारेऽपि द्वितीयातिप्रसङ्गस्य तादवस्थ्यादित्यर्थः। तमेवाह-गमयति कृष्णमित्यादि. परीक्षा न सम्भवति। वृत्यनियामकसम्बन्धस्याभावप्रतियोगिताऽनवच्छेदकत्वमते तादृशप्रयोगानुपपत्तेरिति दिक् । _ नैयायिकमतं खण्डयति-*तन्नेति । ननु तस्यावाच्यत्वे कथमुक्तातिप्रसङ्गवारणमित्यत आह-*अतिप्रसङ्ग इति । *तावदिति । परसमवेतत्वघटितेत्यर्थः ।। *तत्तादवस्थ्यात्-*अतिप्रसङ्गतादवस्थ्यात् । तमेवातिप्रसंगमाह-*गमयतीति । ननु "गतिबुद्धि"इतिसूत्रोपात्तधात्वतिरिक्तधातुविषयैतादृशकर्मत्वाविवक्षया बोधनान्नोन
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy