________________
१५४
दर्पणपरीक्षासहिते भूषणासरेकबोधं प्रति धात्वर्थव्यापोरानधिकारणाश्रयोपस्थितिहेतुरिति कार्यकारणभावान्तरम् । प्रकृते चैत्रस्य व्यापारानधिकरणत्वाभावान्न दोषः । प्रयागस्य कर्मत्वन्तु सम्भावितमपि न । समभिव्याहृतधात्वर्थफलशालित्वस्यैव क्रियाजन्येत्यनेन विवक्षणस्य उक्तप्रायत्वात् ।
नैयायिकास्त्वाद्यदोषवारणाय परसमवेतत्वम् , द्वितीयदोषवारणाय धात्वर्थतावच्छेदकत्वं फले विशेषणम् ; द्वितीयावाच्यमित्युपाददते । परसमवेतत्वं धात्वर्थक्रियायामन्वेति । तथैव कार्यकारणभावा
दर्पणः *उच्यतां वेति* ॥ *कार्यकारणभावान्तरमिति* । सामान्यतः कार्यकारणभावकल्पेने उक्तातिप्रसङ्गन्नाश्रयं प्रकृतधात्वर्थव्यापारानधिकरणत्वेन विशेष्य तादृशाश्रयोपस्थितेहेतुत्वस्य कल्पनान्न तादृशशाब्दबोधापत्तिरिति भावः । *समभिव्याहृतेति* । प्रकृतेत्यर्थः । *उक्तप्रायत्वादिति । धात्वर्थविक्लित्याश्रयात् कर्मतेत्यादिनन्थेनेत्यस्यादिः। गमेस्तत्र पार्थक्येनाऽनुपादानादुक्तम्- *प्रायेति । वस्तुतस्तु, फलव्यापारयोरित्यत्र फलत्वस्य तद्धात्वर्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वरूपस्य निर्वचनाद् व्यापारव्यधिकरणफलाश्रयत्वरूपकर्मत्वोक्त्यैवानति प्रसङ्ग नोक्तविशेषणस्य पार्थक्येन निवेश इति ध्येयम् ॥
नैयायिकमतं दूषयितुमुपन्यस्यति-*नैयायिकास्त्विति । *आद्यदोषेति । चैत्रश्चैत्रं गच्छतीति प्रयोगापत्तिरूपेत्यर्थः । *धात्वर्थतावच्छेदकत्वमिति । फलावच्छिन्नव्यापारस्य धात्वर्थत्वमिति वादिनां मतेनेदम् । तथाच तन्मते धात्वर्थताऽवच्छेदकफलशालित्वं कर्मत्वं द्वितीयाऽर्थः पर्यवस्यति । *कार्यकारणभावेति । द्वितीयाऽर्थपरसमवेतत्वस्य स्वनिष्टप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति भावनात्वावच्छिन्नविशेष्यतासम्बन्धेन धातुजन्योपस्थितेहेतुत्वान्तरकल्पनादित्यर्थः । • ननु भेदस्य केवलाऽन्वयितया सर्वस्यैव परत्वेन चैत्रक्रिया अपि मैत्राऽन्यसमवेतत्वात् तद्वाच्यताङ्गीकारेऽप्युक्तदोषतादवस्थ्यमत आह-*परत्वञ्चेति । व्युत्पत्ति.
परीक्षा त्यर्थः । *कार्यकारणभावान्तरम्-विषयनिष्टप्रत्यासत्या कार्यकारणभावान्तरम् । द्वितीयस्य दोषस्यापत्तिं वारयति-*प्रयागस्येति । *उक्तप्रायत्वादिति । विभागस्य फलस्य क्रियाजन्यत्वेऽपि तस्य गमधात्वर्थत्वाभावान्नापत्तिरिति भावः । अयं चार्थो धात्वर्थफलाश्रयत्वादिति पूर्वोपादानेन सूचितो न तूक्त इत्यतः प्रायपदम् ।
वस्तुतस्तु विभागस्य फलत्वमेव न। तस्य तद्धात्वर्थव्यापारजन्यत्वे सति तद्धा. स्वर्थरूपतया तस्याभावादिति नाधिकविशेषणनिर्देश इति बोध्यम् ।
नैयायिक मतं दूषयितुं तन्मतमुपन्यस्यति-*नैयायिकास्त्विति*। *आयेति । चैत्रश्चैत्रं गच्छतीति प्रयोगापत्तिरूपदोषेत्यर्थः। द्वितीयेति । प्रयागस्य कर्मत्वापत्तिरूपेत्यर्थः। द्वितीयावाच्यमिति । परसमवेतत्वं धात्वर्थतावच्छेदकत्वं च द्वितीयार्थ इति तेषां मतम् । ननु परसमवेतत्वं भेदाश्रयसमवेतत्वं भेदस्य च केवलान्वयितया मैनप्रतियोगिकभेदस्य चैत्रे सत्त्वादुक्तातिप्रसङ्गस्तदवस्थ इत्यत आह-*परत्व