SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अथ सुबर्थनिर्णयः । सुबर्थमाह आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । `यथायथं विभक्त्यर्थाः, सुपां कर्मेति भाष्यतः ॥ २४ ॥ द्वितीया तृतीयासप्तमीनामाश्रयोऽर्थः । तथाहि - "कर्मणि द्वितीया" ( पा०सू० २।३।२) तच्च कर्त्तुरीप्सिततमम् । क्रियाजन्यफलाश्रय इत्यर्थः । क्रियाजन्यफलवत्त्वेन कर्मण एव कर्त्तुरीप्सिततमत्वात् । दर्पणः अथ सुबर्थनिर्णयः । अवसरसङ्गत्या सुबन्तार्थे निरूपणीये प्रातिपदिकार्थविशेष्यत्वात् क्रियाकाङ्क्षितत्वाच्चादौ विभक्त्यर्थनिरूपणमित्यभिप्रायवानाह - *सुबर्थमिति * ॥ *आश्रयोऽर्थ इति ॥ किञ्चिद्धर्मानवच्छिन्नाश्रयतावानित्यर्थः । तेन चतुर्थीपञ्चम्योरर्थयोरुद्देश्यावध्योराश्रयात्मकत्वेऽपि न क्षतिः । तत्र द्वितीयाया आश्रयार्थकत्वे मानमाह -तथाहीत्यादिना ॥ ननु यथाश्रुते "कर्त्तुरीप्सिततम" इत्यनेन कर्तृसम्बन्धिप्राप्तीच्छाविशेष्यस्यैव कर्मत्वं प्रतिपाद्यते, न तु क्रियाजन्यफलाश्रयस्येत्यत आह-*क्रियाजन्य फलाश्रयत्वेनेति ॥ अयं भावः - सूत्रे ईप्सिततमशब्द आप्नोतेरिच्छासन्नन्तात् कर्मक्कान्तात् प्रकृ- त्यर्थाऽतिशयद्योतके तमपि निष्पन्नः । तद्योगाच्च कर्त्तशब्दात्, “तस्य च वर्त्तमाने " ( पा०सू० २।३।६७ ) इति कर्त्तरि षष्ठी । तथाच कर्त्रीपस्थितत्वात् स्वीयव्यापारेण परीक्षा अथ सुबर्थनिर्णयः । क्रियायाः कारकाकाङ्क्षितत्वात्कारका भिधायिप्रत्ययस्य स्मृतत्त्वात्तेषां निरूपणमाक्श्यकमिति तेषामर्थानाह-मूले- * आश्रय इत्यादिना* | *आश्रयः * - आश्रयत्वावच्छिन्नः, चतुर्थीपञ्चम्यौ यावुद्देश्यतावधिरूपौ वाच्यौ तयोराश्रयरूपत्वेऽपि न क्षतिः । तयोर्वाच्यतावच्छेदकताया आश्रयत्वे विरहात् । आश्रयत्वावच्छिन्नस्य द्वितीयावाच्यत्वे युक्तिमाह-*तथाहीत्यादिना* | *कर्मणि द्वितीयेति । कर्मवाचिका द्वितीयेत्यर्थः । * - * कर्म च । ननु “कर्त्तुरीप्सिततमम्" इत्यनेन कर्तृविषया प्राप्तीच्छा तद्विशेष्यस्य लाभात्कथं तेन सूत्रेणाश्रयस्य द्वितीयावाच्यत्वलाभ इत्यत आह-क्रियाजन्येति* । कथमस्य लाभ इति चेच्छृणु ? 'ईप्सिततमम्' इत्यत्राप्नोते रिच्छासन्नन्ताकर्मणि क्तप्रत्यये ततः प्रकृत्यर्थघटकेच्छायाः प्रकर्षविवक्षायां तमुपस्थितस्य व्यापारस्य तत्रान्वय इति स्वीयव्यापारेणाप्तुमुत्करेच्छा विषय इत्यर्थो लभ्यते । आतिश्व फलव
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy