________________
१४४
दर्पणपरीक्षासहिते भूषणसारेगम्यमानायाम् , भूते भाविनि हेतुहेतुमद्भावे सति टुङित्यर्थः । “लिङ्निमित्त लङक्रियातिपत्तौ” (पा०सू० ३।३।१३६) इति सूत्रात्। लिङो निमित्तं हेतुहेतुमद्भावादि । यथा-'सुवृष्टिश्चेदभविष्यत् सुभिक्षमभ
दर्पणः *भूते भाविनीति* ॥ कार्यकारणभावापन्नप्रकृत्यर्थयोर्भूतत्वे भविष्यत्त्वे वा गम्यमान इत्यर्थः ॥ हेतुहेतुमद्भावादीति* ॥ आदिना शक्तयादिपरिग्रहः । तत्र भविष्यदर्थे उदाहरणमाह-*सुवृष्टिश्चेदिति* ॥ अत्रैकस्यैव धात्वर्थस्य कर्तृरूपोपाधिभेदेन कार्य
परीक्षा चानिर्धारितकालविशेषवृत्तिभविष्यद्धंतुभूतसहस्रवर्षव्यापकजीवित्वप्रकारकसम्भावनापकर्त्तका तत्कर्त्तकालकालिकभविष्यकार्यभूतशतपुत्रकर्मकोत्पत्यनुकूलफलव्यापारसम्भावनेति बोधः। अत्र सहस्रजीवित्वस्य कर्तरि बाधज्ञानसत्वे-आहार्यज्ञानात्मकमेव सम्भावनम् , तस्यासत्वे तु तादृशसंशयरूपं तच्छाब्दबोधविषय इति बोध्यम् । एवं भूतेऽप्युक्तार्थे लङ् । यथा-'यदि पर्वताः कोमला अभविष्यन् , तदा आरण्यकै रेवाभक्षयिष्यन्' इति । अत्र यदि शब्दस्यातत्वं कालविशेषश्चार्थः लुङश्वातीतत्वं हेतुहेतुमत्वप्रसक्तिसम्भावनाचार्थः। असत्वम्-अभावप्रतियोगित्वं तदूघटकाभावप्रतियोगितया धात्वर्थोऽन्वेति । तत्रैवाधिकरणत्वेन प्रथमान्तार्थस्याऽप्यन्वयः। एवं च पर्वतवृत्यभावप्रतियोगिहेतुभूतवर्तमानध्वंसप्रतियोगिकोमलकर्त्तकभवनप्रसत्तिसम्भा. वनासमानकालिकारण्यककर्त्तककार्य्यभूतातीतव्यापारजन्यभक्षणसम्भावनाविषय इति बोधः । यदि त्वेतादृशे विषये योग्यतानिश्चयरूपबाधकसत्वान्न संशयसम्भव इति विभाव्यते तदा-आहार्य एव बोधः । नन्वेवं 'वह्निना सिञ्चति इति वाक्यादप्यहार्यबोधः स्यात्, इष्टत्वात् । अथवा यदिपद-तदापद-लिङ्समभिहारे एवाहार्यबोधः । आहार्यज्ञानस्येच्छाजन्यतया वह्निकरणकसेचनज्ञानं जायतामितीच्छासत्वे तु पदार्थोपस्थितिमूलको मानस बोध एव वह्निना सिञ्चतीत्यादिभ्यो भवति । एवं 'पर्वतो यदि निर्वह्निः स्यात्तदा, निर्धूमः स्यादित्यादितर्कस्थलेऽपि । “हेतुहेतुमतोलि इति लिङ् । तदर्थश्च वर्त्तमानत्वं प्रसञ्जनं च । आपाद्यव्याप्यापादकवत्ताज्ञानानन्तरपर्वतमाननिर्वह्नित्वसत्ताप्रसञ्जनजन्यतत्कालिकनिघूमत्वप्रसञ्जनमिति बोधः । अत्राप्याहार्यबोध एव । यदित्वाहार्यशाब्दबोधो नास्तीत्येव सिद्धान्तः, तदा यत्र हेतुहेतुमदावे लिङ्लटौ, तत्रापि तत्तद्वाक्यघटकपदजन्याविश्यवलपदार्थोपस्थितिरेव तदनन्तरं विशेष्ये विशेषणं, तत्रापि विशेषणान्तरमिति रीत्या मानससंशय एव स्वीकार्य्यः। ___ अन्ये तु हेतुहेतुमद्भावे यन्त्र लिङ्, तत्र तत्समभिव्याहृतधातोस्तत्तत् क्रियाप्रसक्त्यभावे लक्षणादिपदसमभिव्याहारस्तात्पर्यग्राहकः । यथायथमतीतानागतत्वं हेतुहेतुमनावश्च लुङर्थस्तस्याभावेऽन्वयः । एवं च 'पर्वता यदि कोमला अभविष्यन्' इत्यादौ अतीतकालसम्बन्धिपर्वतकर्तृककोमलभवनाभावप्रयोज्य–अरण्यककर्तृकातीतव्यापारजन्यभक्षणाभाव इत्येवान्वयबोधः । प्रतियोगिप्रसिद्धिश्च बौद्धी द्रष्टव्या । एवमेव 'यदि वर्षसहस्रम्' इत्यादावनागतकालविषयको बोधोऽभावविषयकः तर्कस्थले तु पूर्वोक्त एवार्थ इत्याहः। तत्राभावबोधस्य वक्ततात्पर्याविषयत्वात् चमत्कारानाधायकत्वाच्च । यत्र त्वभावबोध एव वक्तृतात्पर्यम्, तत्र भवत्येवाभावबोधस्तदाह-*यथा सुवृष्टिश्चे