________________
स्वोपज्ञ - लघुवृत्तिः ] यावाऽऽदिभ्यः कः । ७ । ३ । १५ ।
स्वार्थे
कः स्यात् ।
यावकः, मणिकः ॥१५॥
कुमारीक्रीडनेयसोः । ७ । ३ । १६ । कुमारीणां यत् क्रीडनं तदर्थाद् ईयस्वन्ताच्च स्वार्थे
कः स्यात् ।
मण्यर्थात् स्वार्थे
कन्दुकः,
श्रेयस्कः ॥१६॥
लोहितात् मणौ । ७ । ३ । १७ ।
अस्मात्
[ ४४३:
को वा स्यात् ।
लोहितको मणिः - लोहितो मणिः ॥