________________
४२२
[ हैम-शब्दानुशासनस्य
समासस्तत्पुरुषश्च स्यात् ।
भस्मनिहुतं,
____ अवतप्तेनकुलस्थितम् ॥ ९२ ॥ तत्राहोरात्रांशम् ।३।१ । ९३ ।
इति सप्तम्यन्तं
अहरवयवा राज्यवयवाश्च
सप्तम्यन्ताः तान्तेन
समासस्तत्पुरुषः स्यात् । तत्रकृतम् , 6. पूर्वाह्नकृतम् ,
पूर्वरात्रकृतम् । तत्राऽहोरात्रांशमिति किम् ?
घटे कृतम् । अहोरात्रग्रहणं किम् ?
शुक्लपक्षे कृतम् ।