________________
स्वोपक्ष-लघुवृत्तिः ]
[२१ उत्पातेन ज्ञाप्ये । । । ५९ । उत्पातः=आकस्मिकं निमित्तम् तेन ज्ञाप्ये वर्तमानात्
चतुर्थी स्यात । वाताय कपिला विद्युत्, आतपायातिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् ॥१॥ उत्पातेनेति किम् ? राज्ञ इदं चं,
आयातं विद्धि राजानम् ॥ ५९ ॥ श्लाघ-नु-स्था-शपा
प्रयोज्ये ।।।६०। श्लाघादिभिः धातुभिर्युक्तादू ज्ञाप्ये-प्रयोज्ये वर्तमानात्
चतुर्थी स्यात । मैत्राय श्लाघते-हनुते-तिष्ठते-शपते, प्रयोज्य इति किम् ? मैत्रायाऽऽत्मानं श्लाघते,
आत्मनो मा भूत् ॥ ६० ॥