________________
२१४ 1
[ हैम-शब्दानुशासनस्य
सहार्थे । २ । २ । ४५ ।
सहार्थे
तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नः
तृतीया स्यात् । पुत्रेण सहागतः स्थूलो-गोमान्
ब्राह्मणो वा । एकेनापि सुपुत्रेण, सिंही स्वपीति निर्भयम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥१॥
॥४५॥ यभेदैस्तद्वदाख्या । २ । २ । ४६ । यस्य भेदिनो भेदैः प्रकारैः
तद्वतोऽर्थस्य आख्या निर्देशः स्यात् तद्वाचिनः तृतीया स्यात् ।