________________
३४
वैयाकरणभूषणे
एवं नानार्थस्थळे लघुधर्मावच्छिने एवं शक्तिरपरत्र नि ढा लक्षणा इत्यप्यपास्तम् । एवं प्रतियोयितावच्छेदकत्वमपि स्वरूपसम्बन्धविशेष इत्यपि निरस्तम् । गौरवमतिसन्धानदशायामपि कम्बुग्रीवादिमानास्तीति प्रतीतेर्गुरुषः मप्यवच्छेदक इत्यन्ये । तचिन्त्यम् । कम्बुग्रीवादिमान्नास्तीत्यादाववच्छेदकस्वस्य संसर्गतया प्रवेशात् । तदवगाहिज्ञानस्य चाप्रतिबध्यत्वात् । किं चैवं धर्मितावच्छेदकशालिज्ञानं प्रतिबध्यम् । प्रकृते च धर्मितावच्छेदकानवगाहनाम दोष इति । किं चकम्बुग्रीवादिमत्त्वस्य प्रतियोगितावच्छेदकतया भानमप्यसिद्धम् । किं तु प्रमेयो घटो नास्तीत्यादौ प्रमेयत्वादिवत्मातयोगिविशेषणत्वेन भानमात्रम् । न चैवं कम्बुग्रीवादिमत्प्रतियो गिकाभाववत्ताबोधस्यैव पर्यवसानाथत्किश्चिद्घटवत्यपि तथा प्रयोगापत्तिः । कम्बुग्रीवादिमत्त्वसमव्याप्तधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन कम्बुग्रीवादिमत्यतियोगि का भावस्यैवावंगाह : नात् । अत एव न यत्किञ्चित्कम्बुग्रीवादिमति कम्बुग्रीवादिमानास्तीति शब्दः प्रमाणम् । प्रमाणं च घटसामान्यशून्ये इति रामकृष्ण भट्टाचार्याः । एवं कारणतावच्छेदकत्वं स्वरूपसम्ब न्धविशेष इत्यपि निष्प्रमाण, मतो न तदवच्छेदकत्वेनापि जातिसिद्धिः । तस्मान्नोक्तलाघवानुरोधात् कृतित्वमेव वाच्यतावच्छेदकमिति युक्तम् । वक्ष्यते चान्यदुपरिष्टात् । नन्वस्तु तर्हि धातोः केवलव्यापारवाचकता फलं कर्मप्रत्ययार्थः । संयोगरूपफलभाने गमधातोर्विभागभाने त्यजधातोः समभिव्याहारस्य नियामकत्वाच्च न ग्रामं गच्छति त्यजतीत्यनयोर्विभागसंयोगबोधनदोषप्रसङ्ग इति नैयायिकप्राचां मतमपि । यद्यपि त्यजिगहिन्दीनां पर्यायतापत्तिः । एकस्या एक क्रियायाः संयोग