SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ बैयाकरणभूषणे समुदिनानां वा । नायः । प्रत्येकास्फोटप्रतीतौ तावतैवार्थबोधा. पत्तेः । नान्यः । त्वदुक्तरीत्यैवासम्भवात् । सम्भवे वा तदेतो. रिति न्यायेनार्थबोधस्यापि तत एवोपपत्तेने वाचकत्वान्यथानुपपत्तिरपि । अथ त्वन्मतेप्येष दोषः । तत्तद्वर्णोत्पादकत्वाभिमतवायुसंयोगानां प्रत्येकमभिव्यञ्जकत्वं समुदितानां वेति विकल्पगणग्रासादिति चेत् । अत्रोच्यते । प्रत्येकमेव संयोगा अभिव्यन्जकाः परं तु के चन कत्वेन के चन हत्वेनेत्यनेकैः प्रकारैः । अत एव वर्णानां तदतिरेकास्वीकारोप्युपपद्यते । तच्च वायुसंयोगादिनिष्ठमेव तत्रारोप्यते । एवं चाव्यवहितोत्तरत्वस म्बन्धेन धवत्त्वं टकारे गृह्यते । एतादृशपदज्ञानिकारणतायाँ अविवादात् । परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकारणोत्पतिकज्ञानविषयत्वं वाच्यम् । अत एव घज्ञानानंतरज्ञानविषयत्वरूपानुपूर्वीज्ञानमित्यादिनैयायिकद्धानां व्यवहारः । एवं च ने कश्चिद्दोषः । यत्तु श्रूयमाणशब्दे किमयं हालाहलशब्दः किं वा हलाहल किमयं मरकतशब्दः मकरतशन्दो वा । किमयं कु. शशब्दः कुशशब्दो वेति सन्देहे यथा तथास्तु विषरत्नदर्भवाचकोभवत्येवेत्यादि निश्चिन्वतो बोधो न स्यात् । स्फोगभि व्यक्तौ स्पष्टाभिव्यक्त्यापत्तेः । अनभिव्यक्ती बोधकाभागादिति न्यायरक्षामणावुक्तम् । तचिन्त्यम् । वर्णसमूहरूपपदज्ञानं कारणमिति स्वीकर्तृणां दर्शनान्तराणामपि तुल्यत्वात् । तदर्थज्ञापकत्वज्ञानं च ममापि सममिति । यद्वा । किञ्चित्किञ्चित्मत्येक मेव स्फोटाभिव्याक्तायते । अग्रे अग्रे विशदा जायते । पूर्व जातापि नार्थबोधोपयोगिनी । गथा रत्नतत्त्वस्यैकदा दर्शनेपि नाभिव्यक्तिः, वारंवारं दर्शने तु भवति । उक्तं च । सामस्त्येन तु तद्वयक्तिः सर्वान्ते मणितत्ववदिति । ननु भतिवेत्यादावर्थ
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy