SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सुवर्थनिर्णयः। पारे स्वातन्त्र्यात्स्वतन्त्र इत्यव्यावर्तकामति । तम । धातूपात्त. व्यापारवत्त्वरूपं स्वातन्त्र्यं पारिभाषिकं नैकदा सर्वेषामिति प्रा. गुक्तत्वात् । माधवाचार्याः पुनातुवृत्तौ " प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि । तदधीनप्रवृत्तित्वात्मत्तानां नि. वर्तनात् ॥ अष्टत्वात्मतिनिधेः प्रविवेके च दर्शनात् । आरादप्युपकारित्वात्स्वातन्त्र्यं कर्तुरुच्यते" इति वाक्यपदीयेन स. मादधिरे । तदर्थस्तु करणादितः प्रागेव परस्मादार्यतादेरेव निमित्ताकर्ता प्रवर्त्तते । करणादि तु तदधीनप्रवृत्ति । तथाहि । अर्थी हि कता तत्प्रयुङ्क्ते न तदेनम् । किं च तस्य प्रतिनिधिईश्यते ब्रीह्यभावे नीवारिज्यते । कत्र्तः स नास्ति । तद्भदे क्रियान्तरमेवेति प्रसिद्धिः । किश्च । कारकान्तरानुपादानेप्यसौ दृश्यते भवत्यादिष्वित्यादिरिति च वदन्ति । अत्राचेतने दण्डः करोतीत्यादौ कथं कर्तृत्वम् । लक्षणाया अपि स्वेच्छामात्रेण बहुशो निराकृतत्वादिति चिन्त्यम् । अयं च त्रिविधः । शुद्धः प्रयोजको हेतुः कर्मकर्ता च । देवदत्तेन हरिः सेव्यते । कायते हरिणा । गमयति कृष्णं गोकुलम् । अत्र देवदत्ताभिमाश्रयको हरिकर्मकः सेवनानुकूलो व्यापारः । हर्यभिन्नाश्रयक उ. त्पादनानुकूलो व्यापारः । गोकुलकर्मकगमनानुकूलकृष्णाश्रयकताहशव्यापारानुकूलो व्यापार इत्यायूह्यम् । यतु कारकपरीक्षायाम् । तत्र पञ्चविधः कर्तेति प्रतिज्ञायाभिहितकर्ताऽनभिहिकर्ता चेति भेदद्वयमुक्तम् । तद् भ्रान्त्यैव । उक्तत्रयस्यैवाभिधानमनभिधानं चेति तदतिरिक्तभेदाभावात् । अन्यथा प्रयाणामप्यभिधानानभिधानाभ्यां भेदषट्काप्रत्तिरिति पश्वविधत्वासङ्गतिश्च । अन्यथा कर्म सप्तविधमित्यप्यसङ्गतं स्यात् । नवविधत्वापत्तेरित्यवधेयम् । करणतृतीयाया अप्या
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy