________________
सुवनिर्णयः ।
१३१
वे वा नियामकम् । ग्रामं गमयति देवदत्तं विष्णुमित्र इत्यत्रेव पाचयति देवदत्तेन विष्णुमित्र इत्यत्रापि द्वितीयापत्तेर्दुर्वारस्वापत्तेः । घटं जानातीच्छति करोति पश्यति शब्दं शृणोति गन्धं जिघ्रतीत्यादौ नियामकाभावेन द्वितीयानुत्पत्तिप्रसङ्गाच्च । न च सर्विषयान्यस्मिन्नेतत् । तत्र तु विषयतयान्वय एव तथेति वाच्यम् । देवदत्ताय क्रुध्यति द्रुह्यति ईर्ष्यति असूयति कृष्णाय रोचते स्वदते मोदकः । पुष्येभ्यः स्पृहयतीत्यादौ सम्प्रदानादिष्वापत्तेः । अन्यथा देवदत्तमभिक्रुध्यतीत्यपि न स्यात् । अथ संज्ञैव तन्नियामिका तर्हि तावद्वाच्यकथनं निष्फलम् | शाब्दबोधातिप्रसङ्गस्याप्युक्तरीत्यैव निरस्तत्वात् । तस्माम परसमवेतत्वमर्थः कल्प्यः । एवमवच्छेद केत्यपि व्यर्थम् । धात्वर्थफलशालित्वस्यैव तथात्वे लाघवात् । नैयायिकनवीनैः फळव्यापारयोः पृथक शक्तचभ्युपगमेन तथा वक्तुमशक्यत्वाच्च । न च घटो भवतीत्यादौ धात्वर्थाश्रये कर्मत्ववारणाय तत्कल्प्यतइति वाच्यम् । तत्रापि कर्तृसंज्ञया कर्मसंज्ञाया बाधेनादोषात् । व्याप्तिरेव भवत्यादौ फलामेति प्रागभिहितपक्षे aerat शङ्काया अध्यभावाच्च । नैयायिकादीनामकर्मकेषु फलस्याभावाच्च । यत्तु द्वितीयादिवाच्यं फलमिति । तन्न । धातोः फलवाचकतायाः कृषकर्मकता पत्तेरित्यत्र व्युत्पादितत्वेनान्यलभ्यतया द्वितीयायास्तत्र शक्तिकल्पनाऽयोगादिति सुधीभिम् । यस्तु कर्मत्वत्वादिना बोधात्तत्तद्रूपेणैव शक्तिः । किं चाश्रयत्वरूपस्य तस्य संसर्गत्वेन भानमभ्युपेयम् । तथा च संति तण्डुलः पचतीत्यत्रापि तथा बोधापत्तिः । न च द्वितीयांसमभिव्याहार एव तादृशबोधे कारणम् । प्रथमायाः कर्मत्वे शक्तिग्रहदशायां तण्डुलः पचतीत्यत्रापि तथा बोधेन व्यभिचा
A
-