SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सकारार्थनिर्णयः। तुता । एवमपि "स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ बीहीणां मेध सुमनस्यमान" इतिपुरोडाशसदनसादनप्रकाशकमंत्रयोर्वीहीणां मेधेति मंत्रलिङ्गाद् वीहिप्रयोगएवाङ्गत्वं न तु यवप्रयोमे इति सिद्धान्तहान्यापत्तेः । तत्रैवापूर्वारब्धकार्यानुत्पत्तिव्यभिचारान्यतरापत्तेः । अपूर्वे वैजात्यकल्पने विकल्पमंत्रव्यवस्थोपपा. दने च वीहिधर्माणां यवेष्वप्राप्तिप्रसङ्गः ग्रहधर्माणां सम्मादीनां चमसेष्विव । प्रकृतापूर्वसाधनत्वलक्षणायाः सोमापूर्वमादाय चम. ससाधारण्यात् । अवान्तरापूर्वस्य ग्रहपदादन्तरगतयाशीयोपस्थितेश्चमसासंग्रहे च वीहिपदादपि वीहिसाध्यापूर्वविशेषोपस्थित्या यवेषु प्रोक्षणाद्यप्राप्तिारा । तस्मादेकजातीयापूर्वे एव हेतुत्ता । एवं लोके तृणारणिमणीनां वन्हावपि द्रष्टव्यम् । न चैवं रासभस्यापि घटहेतुतापत्तिः, व्यभिचारातत्यागे तृणादेरपि तदापत्तिरिति वाच्यम् । तत्र हेतुतायां मानाभावात् । यवादेः श्रुत्या तृणादेररणिमण्यभाववति स्तोमे तृणसत्त्वे वन्हिसत्त्वं तदभावे ऽनुत्पः त्तिरित्यन्वयव्यतिरेकसहकृताध्यक्षात्तत्सिद्धः । रासभे तु नोभयम् । किं त्ववश्यकल्प्यदण्डादिभिरन्यथासिद्धिरेवति न हेतुत्वसम्भावनापि । तथापि कारणं विना कार्यासम्भवाद्वीह्मभा. वे कथं यवेभ्यः कार्यमिति चेत्सत्यम् । वीहिभिर्यक्ष्यइति सङ्कस्पावच्छिन्नसमयसम्बन्धस्यैव वाहिकार्यतावच्छेदकसम्बन्धत्वे. नादोषात् । तेन सम्बन्धेनाग्नेयापूर्वस्य यवैरनुत्पत्तेः। एवमुक्तमं. त्रलिङ्गानुरोधात्तत्रैव हेतुत्वान व्यभिचारः । सङ्कल्पापूर्व च फ. लापूर्वोत्पत्तौ नष्टमिति प्रयोगान्तरे यवादीनामुपादानं नानुपपमम् । एवं तृणादेरपि तृणत्वावच्छिन्नसंयोमसम्बन्धेन वन्हित्वा. बच्छिन्नं प्रति तादात्म्येन तृणत्वेन हेतुतेत्यादि द्रष्टव्यम् । अ:
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy