________________
प्रास्ताविकम्
प्रथमतः साङ्गोपाङ्गं प्रदर्श्य पश्चाद् न्यायमतमपि सम्यक्तया सुपुष्टं प्रदर्शितं तथाऽन्यत्र नोपलभ्यते । अस्याध्ययनेन साकं व्याकरण सम्यग् न्यायदर्शनस्यापि बोधो भवेत् । स एव च सर्वशास्त्रोपकारी । उक्तं हि " काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्” इति । अत्र काणादपदं न्यायशास्त्रस्याप्युपलक्षणम् ।
अस्य कर्तुः कौण्डभट्टविषये इतिवृत्तं, अयं काशीनिवासी सारस्वतो ब्राम्हणः प्रसिद्धवैयाकरणमहामहोपाध्याय भट्टोजिद्दीक्षितसहोदरस्य श्रीरङ्गोजि भट्टस्य पुत्र इत्यपेक्षया नाधिकं किमपि विश्वासार्ह ज्ञायते । एतदपि " पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टाभिधम् ” । "भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये” इति एतदीयवाक्यादेव । टीकाकारविषये तु नाम्नः पेक्षया न किमपि विश्वासार्हम् ।
अस्तु, दर्पणसहितस्यास्य भूषणस्य संशोधने गुरूणां श्री ६ महामहोपाध्याय पर्वतीयनित्यानन्दपन्तानामाज्ञामवाप्य श्री जयकृष्णदास गुप्तमहोदयानां प्रेरणया प्रवृत्तोऽहं द्वित्राणि प्राचीनहस्तलिखितानि मुद्रितानि च पुस्तकानि गृहीत्वा यथाशक्त्या गुरूणां कृपया श्रीकाशीपुराधीशत्रिपुरारिकृपया चेमं ग्रन्थं समशोधयम् । क्वचि न्मूललापनाय ग्रन्थान्तरीयाः कल्पिताश्च टिपणीरप्यकारयम् । पूर्व मुद्रितपुस्तकापेक्षयाऽत्र बहुषु स्थलेषु त्रुटितग्रन्थपूरणम् शुद्धपाठयोजनं चाकारयम् ।
अस्तु, अस्मिन् संशोधने मम दृष्टिदोषतो मुद्राक्षरयोजकप्रमादतो वा जातानि स्खलितानि संशोध्यात्रत्यान् गुणान् दोषान्नपास्य हंसक्षीग्न्यायेन स्वीकुर्वन्तु गुणैकपक्षपातिनो विद्वांसो दयालवोऽनुगृण्हन्तु च मामिति प्रार्थयति
-
विदुषामनुचरोऽनंतशास्त्री फडके ।