SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ १ पा. ३ आ. , शब्दकौस्तुभः । इदं च शाब्दबोधे हेतुरिति यैर्नेष्यते तेषामासन्नानासनकथो- . च्छेदः स्यात् । पदसमूहालम्बने सकलपदानां पदार्थस्मरणे च सकलपदार्थानां विषयत्वाविशेषात् । आवृत्तिश्च संज्ञात्वे लिङ्गम् । व्यवहारार्थमेव संज्ञाकरणात् । भेदाभेदाभ्यामपि संज्ञित्वसंज्ञात्वे व चिनिर्णीयेते । बहूनां त्येका संज्ञोचिता । लाघवात् । न त्वेकस्य बढ्यः संज्ञा गौरवात् । न्यूनाधिकव्यक्तिकास्तु वव्यः संज्ञाः इष्यन्तएव । तत्तत्प्रयुक्तकार्यवैलक्षण्यात् । कृत्कृत्यप्रत्ययसंज्ञावत् । तद्धिततद्राजप्रत्ययसंज्ञावच्च । लघ्वक्षरत्वमपि.टिघुभादौ संज्ञालिङ्गं यथायथं बोध्यम् । इह त्वावृत्या ऽभेदेन च वृद्धिशब्दः संज्ञेति स्थिते तब्दलेन श्रुतानुभिङ्गादादैचां प्राथम्यमपि योजनीयम् । यद्वा । स्वेच्छया संज्ञाः क्रियन्ते इति पक्षं विहाय व्यवहाराय नियम इति पक्षे योज्यम् । आद्योप कार्यकालपक्षाश्रयणेन वा समाधेयमिति दिक् । एतेनार्द्धधातुकं शेषः कृदतिङ् अपृक्तएकाल्पत्ययः स्वंरूपंशब्दस्य अणुदित्. तपर आदिरन्त्येन येनविधिस्तदन्तस्येत्यादावपि व्यभिचार उद्धृतः तत्रापि विपरीतानुपूर्वीकल्पनात् । कल्पकत्वस्य च प्रोगवोक्तत्वात् । पक्षान्तरैरपि समाधानाच्च।अत एव स्थानिवत्सूत्रे वत्करणङ्किमर्थमित्याशङ्कय स्थान्यादेशस्य संज्ञा मा विज्ञायीति भाष्यमप्युपपन्नम् । यत्त्वपृक्त एकालिति परिभाषा न तु संज्ञेत्युक्तम्। तद् वृद्धयादावपि सुवचम्।अपृक्तसंज्ञायां हल्ग्रहणं स्वादिलोपे हलो ग्रहणार्थमिति वार्तिकस्य तद्भाष्यस्य च प्रतिकूलम् । तस्मादुक्तैव गतिः समीचीनेति दिक् । ननु मृजेर्वृद्धिरित्यादावन्योन्याश्रयः संज्ञया हि विधिविहितानां च संज्ञेति । न च मालादौ संज्ञामवृचिसंभवे सतीह भाविसंज्ञाविज्ञानं सम्भवति । तस्माद् वृद्धिशब्द एवादेशः स्यात् । अन्य
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy