SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । [१ अ० माणिकाः । वस्तुतस्तु एकदेशिसमासविषयकोयं निषेधः । न चात्र प्रमाणाभावः।पञ्चखट्वीति द्वितीयभाष्यस्य प्रमाणत्वात्। इति शब्दकौस्तुभे प्रथमस्याध्यायस्य द्वितीये पादे प्रथममान्हिकम् ॥ - अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ डित्थादीन्यव्युत्पन्नान्युदाहरणम् । अव्युत्पत्तिपक्षस्य चेदमेव ज्ञापकम् । यत्तु व्युत्पत्तिपक्षेपि निपातार्थमनुकरणार्थ चेदमिति हरदत्तेनोक्तम् । तन्न । तत्रापि प्रकृत्यादिकल्पनसम्भवादिति बोध्यम् । वस्तुतस्तु बहुपटव इत्याद्यर्थमिदम् । न च तद्धितग्रहणे मत्वर्थलक्षणया निर्वाहः । पचतकीत्यादावतिव्याप्तेः । अव्युत्पत्तिपक्षस्तु कमिग्रहणेन सिद्धे कंसग्रहणेनैव ज्ञाप्यः । ज्ञापिते च तत्राप्यनेनैव संज्ञा सिध्यति । नन्वेतदेव ज्ञापकम् । बहुचपूर्वे कृतार्थत्वादित्यवधेयम् । अर्थवत्किम् । धनं वनमित्यादौ प्रतिवर्ण संज्ञा मा भूत् । स्यादेतत् । विशिष्टरूपोपादानविषयतया अर्थवत्परिभाषाया इहाप्रवृत्तावपि अधातुरप्रत्यय इति पर्युदासादेव सिद्धम् । न चाधीते यावक इत्यादौ इङ्कनौ निरर्थकावपि धातुप्रत्ययौ स्त इति वाच्यम् । अडादिव्यवस्थायै इङ एवार्थवत्त्वस्वीकारात् । स्वार्थिकानाञ्च प्रकृत्यर्थेनार्थवत्त्वात् । न चेदं कल्पनामात्रमिति वाच्यम् । डित्थादावपि तथात्वात् । उक्तं हि । अर्थवत्ता नोपपद्यते केवलेनावचनात् सिद्धं त्वन्वयव्यतिरेकाभ्यामिति । . कल्पिताभ्यामिति हि तदर्थः । वस्तुतः पदस्फोटवाक्यस्फोटयो- . रेवार्थवत्वात् । सत्यम् । उत्तरार्थमर्थवद्ग्रहणं इह तु स्पष्टार्थम् । अधातुः किम् । अहन् । नलोपो मा भूत् । न च सुपोधात्विति धातुग्रहणात् धातोर्नेयं संज्ञेति वाच्यम् । श्येनायते इत्यादौ प्रत्ययान्ते धातुग्रहणस्य चरितार्थत्वात् । अप्रत्ययः किम् । पच
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy