SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ १८१ भन्दकौस्तुभः। [१ ० हि गुणदीपरत्वाद्वाधिके । ततश्चाज्मनेति दीघेण गुणवापसत्येवेत्वं लभ्यं न तु ततः प्राक् । एवं च यस्य तु विधेरित्यंशो एस्वइव दीर्घष्वविशिष्ट इति भावः । एवं प्राप्ने सिदान्तमाह । जिलोपस्त्विति ॥ हलन्ताच्च । कर्मधारयोयम् । अन्तशब्दः समीपे परभूते वर्तमानो विशेषणमषि निपातनान पूर्वनिपतितः । इक इति पञ्चम्यन्तमपीह षष्ठचा विपरिणम्यते तत्सापेक्षोप्यन्तशब्दो नित्यसापेक्षत्वात्समस्यते । इक्समीपाद्धलः परो झलादिः सन् कित्स्यात् । बिभित्सति । इकः किं । यियक्षते । झल् किम् । विपर्धिषते । कथं विप्सतीति, हल्ग्रहणस्य जातिपरत्वात्सिद्धमि. त्युपपादितं निपातएकाजिति सूत्रे ॥ लिसिचावात्मनेपदेषु ।। इक्समीपादलः परौ झलादीलि. इतिङ्पर सिञ्चेत्येतो कितौ स्तः। भित्सीष्ट । अभित्त । इकः किम्। यक्षीष्ट अयष्ट। सम्मसारणं मा भूत् । आत्मनेपदेष्विति किम् । असाक्षीत् । अद्राक्षात् । अकितीत्युक्तेरम् न स्यात् । सिच एवेदं विशेषणं नतु लिङो ऽसम्भवात् । झलनुवृत्त्यैव लिङः परस्मैपदस्य व्यावर्तितत्वाच्च । हलः किम् । चेषीष्ट । अचेष्ट । मल किम् । वर्तिषीष्ट । अवतिष्ट ॥ ___ उश्च ॥ ऋवर्णात्परौ झलादी लिसिचौ कितौ स्तस्तङि। कृषीष्ट । अकृत । झलादौ किम् । वरिषीष्ट । अवरिष्ट । लिङ्सिचोरिती । तङि किम् । अकार्षीत् । ऋ इति वर्णग्रहणं क्यासिन्यायात् ॥ वा गमः ॥ गमः परौ झलादी लिसिचौ वा कितौ स्तः। सगसीष्ट । सहंसी । समगत । समयंस्त । कित्त्वपक्षे ऽनुदातोपदेशवनतीत्यादिनानुनासिकलोपः ॥
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy