SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २४२ शब्दकौस्तुभः । [ १ अ० वादोस्तु न तु प्रत्ययः परश्चेत्यस्यापीति चेन्न । बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वं बाध्यतइतीहाभ्युपगमात् । अन्यथा श्रमो मित्करणं व्यर्थं स्यात् । न च श्रवणार्थ एव श्रमो मकार इति वाच्यम् । तृणह इति निर्देशात् । अच इति जात्यभिप्रायेणैकवचनम् । निर्द्धारणे षष्ठी । न चान्त्यादि - त्यनेन सामानाधिकरण्यादच इति पञ्चम्यवास्तामिति वाच्यम् । शे मुचादीनामित्यादावन्त्यस्याचो ऽसम्भवेनैतत्परिभाषा - या अवृत्तावलोन्त्यपरिभाषाप्रसङ्गात् । तथा च तत्र मित्करणवैयर्थ्यापत्तेः । पूर्वसूत्रे आद्यन्तावितिसमासनिर्देशेपीहान्तग्रहणमात्रमनुवर्त्तते एकदेशएव स्वरितत्वप्रतिज्ञानात् । तेन मित्पूर्वन्तः । यदि त्वभक्तः स्यात्तदा ताता पिण्डानामित्यादौ शेश्छन्दसि बहुलमिति शेर्लोपे कृते नलोपो न स्यात् । प्रातिपदिकान्तत्वाभावात् । तथा वलिह इत्यत्र वहाभ्रे लिह इति खशि अरुर्द्विषदजन्तस्येति मुमि मोनुस्वार इत्यनुखारो न स्यात् । अपदान्तत्वात् । यदि त्वादिग्रहणमनुवर्त्य परादिः क्रियेत तदा वारिणे इत्यादी घेडतीति गुणः स्यात् । वलिह इत्यत्रानुस्वारो न स्यात् । अतिशयितः सखा येषां तान्यतिसखीनि ब्राह्मणकुलानीत्यत्र सख्युरसम्बुद्धाविति णित्वप्रयुक्ता वृद्धिः प्रामोति । सा हि गौणत्वेपीष्यते अस्थ्याद्यनङ्खत् । एतच्चेह सूत्रे भाष्यकैयटयोः स्फुटम् । तस्मात्पूर्वान्तपक्ष एवात्र स्थितः । अत्र वार्त्तिकम् । अन्त्यात्पूर्वो मस्जेरनुषङ्गसंयोगादिलोपार्थम् । मग्नः । मग्नवान् । ओदितश्चेति निष्ठानत्वम् । तस्यासिद्धत्वात्कुत्वम् । मस्जिनशोर्झलीति नुम् । स च यद्यन्तादचः परः स्यात्तदानिदितामित्यनुषङ्गलोपो न स्यात् । उपधाभूतस्य नकारस्यानुषङ्ग इति प्राचां संज्ञा । अथ स्कोरिति सलोपे
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy