SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १ पा.६ आ. शब्दकौस्तुमः । २२१ जसाधारं यत्कार्य शीभावाख्यं तत्र कर्तव्ये द्वंद्वे उक्ता संज्ञा वा स्यात्। वर्णाश्रमेतरे। वर्णाश्रमेतराशीभावं प्रत्येवेयं विभाषति व्याख्यातम् । तेनाकच् न भवति । तस्मिन्कर्तव्ये द्वंद्वे चति नित्यं निषेधात् । अतस्तत्र कप्रत्यय एव भवति । वर्णाश्रमे. तरकाः । केन व्यवधानानेह शीभावः । अकचि कृते तु तन्मध्यपतितन्यायेन शभिावः स्यादेव ॥ . प्रथमचरमतयाल्पा कतिपयनेमाश्च ॥ एते जसः कार्य प्रति सर्वनामसंज्ञा वा स्युः। प्रथमे प्रथमा इत्यादि । शेषं रामवत् । नेमे नेमाः । शेषं सर्ववत् । इहापि प्राग्वच्छीभावं प्रत्येव संज्ञाविकल्पः । तेन प्रथमका इत्यादावकज् न । अन्यथा प्रथमके इति स्यात् । उभयशब्दस्य तु नेयं विभाषा किन्तु नित्या संज्ञेति गणव्याख्याप्रसङ्गेनोपपादितम् ॥ . पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ॥ स्वमज्ञातिधनाख्यायाम् ॥ अन्तरम्बहिर्योगोपसंन्यानयोः ॥ एषा त्रिसूत्री गणम. ध्येमि पठ्यते । सा च व्याख्याता तया यस्मिन्नेवोपाधौ नित्या संज्ञा प्राप्ता तत्रैव जसि विभाषानया विधीयते । पूर्वे पूर्वी इत्यादि । स्वे स्वा, आत्मीया इत्यर्थः । आत्मान इति वा । इह त्रिसूत्र्यां यद्वक्तव्यं तत्सर्वं गणव्याख्यावसरएवोक्तम् । विभाषाप्रकरणे तीयस्य डिस्पसंख्यानम् । द्वितीयस्मै द्वितीयायेत्यादि । एकादेशस्य पूर्वान्तग्रहणेन ग्रहणाल्लिङ्गविशिष्टपरिभाषया वा द्वितीयस्यै द्वितीयायै इत्याद्यपि सिद्धम् । एवं च विभाषा.द्वितीयातृतीयाभ्यामिति सूत्रं न कर्त्तव्यं भवति । अ. र्थवत्वात्, प्रतिपदोक्तत्वाच्च । द्वेस्तीयोः सम्प्रसारणं चेत्ययमेव गृह्यते । तेनेह न । प्रकारवचने जातीयर, पटुजातीयाय ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy