SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १ पा. ४ आ. शब्दकौस्तुभः । १२१ 'हि पूर्व गुणप्रवृत्तिः । तत्र चाजानन्तर्याश्रयणपिगुणोत्तरप्रवृत्तिके एत ऐ इत्यत्र तदनाश्रयणायुक्त एव बहिरङ्गतयोद्धारः । उपेद्धः प्रेद्ध इत्यादौ तु गुणं प्रापय्य निषेधः कार्य इत्युत्तरकालप्रवृत्तिको निषेधः । तत्राजानन्तर्याश्रयणाभावाबहिरङ्गपरिभाषया सिद्धमेवैतत् । अतोत्रत्यं भाष्यमपि सङ्गच्छते । ननु षत्वतुकोरसिद्ध इति सूत्रएषा परिभाषा ज्ञापयिष्यते। तत्र च कोसिचत्को. स्येत्यादौ प्रथमप्रवृत्तिके एङ: पदान्तादित्यास्मन्नजानन्तर्य न सूत्तरकालप्रवृत्ते षत्वेपीति कथं कैयटमतं समर्थनीयम् । तस्माद्यत्रान्तरङ्गे बहिरंगे वा अचोरानंतयमिति हरदत्तोक्तरीतिरेव शरणी. कर्तव्येति चेन्न । कैयटमते अचोरिति द्वित्वस्याविवक्षया सर्वसामञ्जस्यात् । अस्ति ह्युत्तरकालप्रवृत्तिके षत्वे अच आनन्तर्याश्रयणम् । इणः परस्य सस्येत्युक्तेः। एवं च प्रथमपक्षे प्रेद्ध इत्यादौ दोषाभावपि भेद्यतइत्याद्यसिद्धिरेव दूषणमिति दिक् । द्वि. तीयपक्षे तु यत्किञ्चिन्निमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । ततश्च क्नूयी शब्दे इत्यस्माणिचि पुकि यलोपे कृते पुगन्तलक्षणो गुणो निषिध्येत । तथा च कोपयतीति न सिध्येत् । यदि तु चेलेनोपेरिति निर्देशाद् गुणस्तहीहापि भेद्यतइत्यस्यासिद्धिरेव दोषः । तृतीयपक्षे त्वाई धातुकनिमित्तके धातुलोपे सत्यार्द्धधातुकनिमित्ते गुणवृद्धी न स्त इति सूत्रार्थः स्यात् । तत्र तन्त्रावृत्त्याद्याश्रयणप्रयुक्तं गौरवं तावत्स्पष्टमेव । लोपेन सह गुणवृद्धयोरेकनिमित्तकत्वं च न लभ्येत । ततश्च भेद्यतइत्यत्र भिदेण्यन्तात्कर्मणि यकि भिद इय इति स्थिते नित्यत्वाणिलोपे कृते प्रत्ययलक्षणेन णिचमाश्रित्य क्रियमाणोपि गुणो निषिध्येत । न च णिलोपात्यागेवान्तरंगत्वाद् गुणोस्त्विति वाच्यम् । विभज्यान्वाख्यानपक्षे तदसम्भवात् ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy