________________
[७५
द्वितीयः सर्गः । कृष्णकृतकालियनागदमनम् ॥]
देवकीवसुदेवाभ्यां वत्सवात्सल्यतः परात् । पितृभ्यां गोत्रसर्वस्वं गोपितोऽसि भयादिह ॥३३८॥ कृष्णः पप्रच्छ सम्भ्रान्तः कुतो भयममूदृशाम् ? । येनक्षिप्तोऽस्मि पित्राऽस्मिन्गोकुले गोपसंकुले ॥३३९॥ तत स्तं कंसवृत्तान्तं व्याजहार हरेर्बलः । कर्षकेणेव सद्बीजमुप्तं काले फलेद्वचः ॥३४०॥ अथ बन्धुवधोबुद्धरोषोऽरिष्टारिरभ्यधात् । सर्वे मे सिद्धगन्धर्वाः प्रतिज्ञां शृणुत क्षणम् ॥३४१॥ सर्वेषां पश्यतां राज्ञां पापं कंसं न हन्मि चेत् । ध्रुवं तदाऽहं गृह्येयं तदीयभ्रूणहत्यया ॥३४२।। रोहिण्यङ्गरुहो रोहत्पुलकाङ्करदन्तुरः । ततो भ्रातरमालिङ्ग्य निजगाद प्रमोदतः ॥३४३।। साधु वत्स ! त्वयाऽऽत्मीयकुलस्य तिलकायितम् । भूभृदाक्रमणोर्जस्वि तेजो यस्य वेरिव ॥३४४॥ तदिदानीमिह स्नात्वा व्रजावो मथुरां प्रति । इत्युदीर्य बलः कृष्णं निनाय यमुनाजले ॥३४५॥ तत्र दृष्टिविषः कालः कालियो नाम पन्नगः । तीरवासी जले क्रीडन्कृष्णं दष्टुमधावत ॥३४६॥ निःशूकं दन्दशूकं तं लोकः स्फारस्फटोत्कटम् । हरिं च बालमालोक्य हाहारवपरोऽभवत् ॥३४७।। सोऽतिभीष्मो विषोल्काभिर्यावद्दशति केशवम् । असौ तमग्रहीतावल्लीलया गलकन्दले ॥३४८॥ लीलाकमलनालेन नस्तयित्वा जनार्दनः । आरुह्य वाहयामास तमहि जात्यवाजिवत् ॥३४९।। दुर्दमं दम्यमानं तं पन्नगं वीक्ष्य विस्मिताः । तस्थुधृत्वा विमानानि नभोभागे नभश्चराः ॥३५०॥
15
25
१. ततः कंसस्य वृत्तान्तं इति प्रत्यन्तर । २. निर्दयम् । ३. 'नासिकाबन्धं विधाय नस्त=[नाकर्विधीने दोरी बांधवी]नुं नामधातु, सं.भू. कृदन्त छे.