________________
[६७
द्वितीयः सर्गः । नेमिनाथ जन्मोत्सवः ॥]
बन्धुना बलदेवेन रक्ष्यमाणः प्रतिक्षणम् । इति कृष्णः सुखं क्रीडन्गोकुले कालमत्यगात् ॥२३४॥ इतश्च श्रीशिवादेवी स्थिता शौर्यपुरे पुरे । एकदा कार्तिके कृष्णद्वादश्यां क्षणदाऽत्यये ॥२३५॥ गर्भावतारपिशुनान्महास्वप्नांश्चतुर्दश । दृष्ट्वा चित्रागते चन्द्रे निद्रामुद्रां व्यमुञ्चत ॥२३६॥ युग्मकम् । प्रहृष्टा यावदाचष्टे देवी देवाय तान्प्रगे । क्रोष्टुकिस्तावदागच्छच्चारणश्रमयोऽपि च ॥२३७॥ तान्निशम्य वरस्वप्नांस्तत्फलं तावशंसताम् । तीर्थंकराणां जननी राजन्नेतान्समीक्षते ॥२३८॥ ततो जगत्रयत्राणव्यवसायविशारदः । लोकोत्तरप्रभावोऽयं भावी तीर्थंकरः सुतः ॥२३९।। श्रुत्वेति राजा राज्ञी च पीवरां प्रीतिमीयतुः । ज्ञानिनो(नौ) बहुमानेन नत्वा व्यसृजतां च तौ ॥२४०॥ देवी विशेषलावण्यं देवश्चाभ्युदयं परम् । देशश्च दुरितध्वंसं लेभे गर्भानुभावतः ॥२४१॥ श्रावणे श्वेतपञ्चम्यां चन्द्रे चित्रागते निशि । लग्ने सौम्यग्रहैदृष्टे शिवया सुषुवे सुतः ॥२४२॥ तदानीं दिक्कुमारीभिः सूतिकर्म विनिर्ममे । स्नात्रं च चक्रे शक्रेण तस्येत्यश्रोषमाप्ततः ॥२४३॥ कुन्ति ! देवि ! मयापीदमीक्षितं चक्षुषा पुनः । यद्देवैर्यादवेन्द्रस्य रत्नैः सौधमपूर्यत ॥२४४॥ आजन्मानाप्तसौख्यानामपि प्राणभृतां तदा । जातमात्रेऽप्यहो ! तत्र सुखाद्वैतमजायत ॥२४५।। तस्य जन्मोत्सवे देवः कारागारमशोधयत् । अमारिं घोषयामास दीनांश्चोपचकार च ॥२४६॥