SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६४] [पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य-यशोदागृहे स्थापनम् ॥ ततः स्मेरमुखः शौरिरेतस्मात्काष्ठपञ्चरात् । यस्त्वां मोचयिता सोऽयमिति मन्दमचीकथत् ॥१९५।। सोऽप्यूचे कंसतः प्राप्तो बन्धोऽप्येष धिनोति माम् । येन जागरितोऽद्राक्षमपूर्वमिदमद्भुतम् ॥१९६।। शिशोस्तस्यानुभावेन सुखोत्तारमिति द्रुतम् । उत्तीर्य यमुनां शौरिरगमन्नन्दगोकुलम् ॥१९७।। तदैव दैवयोगेन यशोदा नन्दगेहिनी । तनयां जनयाञ्चक्रे मनोरमतमाकृतिम् ॥१९८॥ तामादाय यशोदायाः समर्प्य च तनूरुहम् । कृतकृत्यमनाः शौरिः स्वस्थानं पुनरायथौ ॥१९९॥ तां नन्दपुत्री देवक्याः स च वेगादुपानयत् । दूरीकृतप्रमादास्ते पत्तयश्च जजागरुः ॥२००।। बालिकां तामुपानिन्युस्ते कंसाय निरादराः । सावजं वीक्ष्य सोऽप्येनामकरोल्लूननासिकाम् ॥२०१॥ प्रीत्या भीत्या च योऽश्रान्तं स्मर्यते मित्रशत्रुभिः । वध्यः सोऽप्यनया कंसः कूट सत्यं मुनेर्वचः ॥२०२॥ इत्थं हसित्वा सोल्लुण्ठमतिमुक्तमहामुनिम् । स मृत्युञ्जयमात्मानं मन्वानो राज्यमादधे ॥२०३॥ युग्मकम् । कन्यामवज्ञया कंसो देवक्याः पुनरार्पयत् । उड्डामरभुजस्थाम्नामनास्था क्षामधामसु ॥२०४॥ अथाभूद्गोकुलं सर्वं शिशुना तेन कान्तिमत् । पूर्वाद्रेरिव बालेन प्रालेयधुतिना शिरः ॥२०५॥ तदाऽऽसीदुद्यदानन्दं मनो नन्दयशोदयोः । तादृशस्य सुतस्याप्तौ को हि नाम न हृष्यति ? ॥२०६।। नन्दोऽथ तस्य कृष्णत्वान्नाम कृष्ण इति व्यधात् । अङ्कमारोप्य गोप्यस्तं लालयन्ति स्म विस्मिताः ॥२०७॥ 25 १. 'अथ' इतिप्रतिद्वय । २. अधिक बाहुबलानाम् । ३. हीनतेजस्सु । ४. चन्द्रेण ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy