________________
5
10
15
20
25
६९०]
[ पाण्डवचरित्रमहाकाव्यम् । द्वारकादाहवृत्तान्तः ॥
केनापि सुहृदा साम्बः प्राभृतीकृत्य पायितः । कुमारैः सह दुर्दान्तैर्गृध्नुस्तद्वनमायौ ॥२६२॥ युग्मम् । ते तत्रापानमाबध्य तां सुरां स्वैरमापपुः । क्षणेन क्षीबतां प्राप्य विचेलुश्च यदृच्छया ॥२६३॥ तत्रैकान्ते तपस्यन्तमन्तकं पापकर्मणाम् । द्वैपायनपरिव्राजं ते निध्याय दधुः क्रुधम् ॥२६४॥
हन्यतामधुनैवायं दुरात्मा मुनिपांसनः । व्यापादितः कथं नाम दग्धुमीशिष्यते पुरीम् ? ॥२६५॥ इति साम्बगिरा लेष्टुचपेटायष्टिमुष्टिभिः । हत्वा हत्वा मृतप्रायं तं व्यधुर्भवदात्मजाः ॥ २६६॥ मृतोऽयमिति मूर्च्छालं तं त्यक्त्वा गृहमाययुः । मूर्च्छाविरामे सामर्षं तं च वीक्ष्याहमागमम् ॥ २६७॥ इत्याख्याय स्थिते तस्मिन्ननर्थो मा स्म भूदितः । इत्यगच्छं सरामोऽहं सान्त्वनाय मुनेर्वनम् ॥२६८॥ कोपाटोपकडाराक्षमद्राक्षं तत्र तं मुनिम् । करौ च कुड्मलीकृत्य सप्रश्रमवादिषम् ॥२६९ ॥ दुस्तपं ते तपः क्वेदं ? मुने ! कोपः क्व चेदृश: ? । कथमेकत्र संवासस्तेजस्तिमिरयोरयम् ? ॥२७०॥
मुहुः सिक्तं शमाम्भोभिः फलिष्यन् मुक्तिसम्पदा । तपोबीजमखण्डं ते क्रोधवह्निर्दहत्ययम् ॥ २७१ ॥ अज्ञानैर्मद्यपानान्धैडिम्भरूपैर्महामुने ! । अपराद्धमिदं यत्ते तदद्य क्षन्तुमर्हसि ॥ २७२ ॥ अथावादीन्मुनिर्विष्णो ! पर्याप्तं तव सान्त्वनैः । अधुनैव क्रुधाऽन्धेन निदानं विदधे मया ॥ २७३॥ द्वारकाया यदूनां च क्षयाय स्यामतो हरे ! । सर्वस्य प्रलयो भावी लोकस्यास्य युवां विना ॥ २७४॥
१. दृष्ट्वा ।