________________
5
10
15
20
25
६६६ ]
[ पाण्डवचरित्रमहाकाव्यम् । नेमिनाथस्य केवलज्ञानोत्पत्तिः ॥
द्वितीयेऽथ दिने नाथः सम्पदां धाम्नि गोकुले | वरदत्तगृहे चक्रे परमान्नेन पारणम् ॥३१०॥ पुष्पगन्धाम्बुरत्नानां वर्षं दुन्दुभिताडनम् । चेलोत्क्षेपं च विदधुस्त्रिदशास्तस्य वेश्मनि ॥ ३११॥ ततो विश्वप्रभुर्घातं निर्मातुं घातिकर्मणाम् । विजहार महीहारः पुरग्रामाकुलामिलाम् ॥३१२॥ द्वारवत्यामथाऽऽयाताः पाण्डवाः सह शाङ्गिणा । गतं नाज्ञासिषुः कालमानन्दैकवशंवदाः ॥३१३॥ विहृत्य नेमिनाथोऽपि चतुष्पञ्चाशतं दिनान् । उपाजगाम तत्रैव सहस्त्राम्रवणे पुनः ||३१४ || तत्राष्टमतपःस्थस्य वेतसद्रुतले प्रभोः । आश्विने दर्शपूर्वाह्ने चित्रास्वजनि केवलम् ॥३१५॥ सद्यः सुरेश्वरास्तस्मिन्नुपेत्याऽऽसनकम्पतः । चक्रुः समवसरणं वप्रैस्त्रिभिरलंकृतम् ॥३१६॥ प्राग्द्वारेण प्रविश्याथ विंशधन्वशतोच्छ्रयम् । तत्र प्रदक्षिणीकृत्य विधिवच्चैत्यपादपम् ॥३१७॥ तीर्थंकरः सोऽथ नमस्तीर्थायेत्युक्तिपूर्वकम् । प्राचि सिंहासने प्राचीसम्मुखः समुपाविशत् ॥३१८॥ युग्मम् । त्रिषु सिंहासनेष्वन्येष्वन्यत्रापि दिशां त्रये । अमरा व्यन्तरानेतु' प्रतिरूपाणि चक्रिरे ॥३१९॥ ततश्चतुर्विधा देवा देव्यश्च स्वामिसम्मुखाः । उपाविशन्यथाभूमि कुड्मलीकृतपाणयः ॥ ३२० ॥ तदा रैवतकोद्यानपालकाश्चक्रपाणये । प्रभोर्ज्ञानोत्सवोदन्तं वेगादेत्य न्यवेदयन् ॥३२१॥ कोर्द्वादश रूप्यस्य सार्धास्तेभ्यो ददौ हरिः । उपवाह्येभमारुह्य भक्त्युत्तालश्चचाल च ॥३२२॥
१. तीर्थंकरस्य । २. पट्टगजम् ।