SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ [६५५ 10 षोडशः सर्गः । श्रीनेमिकुमारस्य विवाहारम्भः ॥] प्रतिमन्दिरमारब्धवधूवरगुणस्तुतिम् । हरेः पुरीमुपेयाय सकुटुम्बो युधिष्ठिरः ॥१६४॥ त्रिभिर्विशेषकम् । विष्वक्सेनः ससेनोऽथ प्रत्युद्याय सगौरवम् । वैवाहिकक्रियारम्भसंरम्भिरमणीजनम् ॥१६५।। उद्दामधवलध्वानवाचालाखिलभूमिकम् । नवीनामुक्तनिर्णिक्तमुक्तोच्चूलजटालितम् ॥१६६।। शिवादेवीसमादेशसमुत्सुकपरिच्छदम् । रम्भास्तस्भादिमाङ्गल्यमण्डितोद्वाहमण्डपम् ॥१६७।। वेगाटनत्रुटच्चेटीहारतारकितोदरम् । प्रौढप्रेमा निजं सौधमानैषीद् धर्मनन्दनम् ॥१६८॥ चतुर्भिः कलापकम् । वृत्तेऽन्येषां यथौचित्यमन्योऽन्यप्रणतिक्रमे । पादोपगूढमानम्य शिवा कुन्तीमभाषत ॥१६९।। असौ देवि ! त्वदीयाशीर्वादपादपपल्लवः । यदीदृशस्य पुत्रस्य मातृशब्दं वहाम्यहम् ॥१७०॥ निजभ्रातृतनूजस्य वृद्धिर्येयं तवैव सा । कुरु सर्वाण्यतः कृत्यान्युचितानि पितृस्वसुः ॥१७१॥ वचनेनामुना तस्याः पीयूषेणेव वल्लरी । जननी पाण्डवेयानां विशेषोच्छसिताऽभवत् ॥१७२॥ नेदीयसि ततो लग्ने प्रीत्यालिङ्गितचेतसाम् । समुद्रविजयादीनां दशार्हाणां निदेशतः ॥१७३।। देवी कुन्ती शिवादेवी देवकी रोहिणी तथा । कृतमाङ्गल्यवेषाश्च समेताः सर्वमातरः ॥१७४॥ रेवतीरुक्मिणीभामाप्रमुखाः प्रहसन्मुखाः । प्राणेशपुत्रवत्यश्च प्रजावत्योऽखिला अपि ॥१७५।। विवाहदीक्षाविधये संस्थाप्य प्राङ्मुखं वरम् । मङ्गलोद्गारमुखराः स्नपयामासुरादरात् ॥१७६॥ चतुभिः कलापकम् । 25 १. निर्णिक्तं शोधितम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy