________________
[६३१
चतुर्दशः सर्गः । पाण्डवकृतानि धर्मकृत्यानि ॥] .
दामोदर ! तवैवेदमनुभावविजृम्भितम् । .. भूयोऽभूवन् यदेता मे हस्तिनापुरसम्पदः ॥३१६॥ : स्मरस्येतद् विराटेषु गूढवासकर्थितान् । आदराद् द्वारकां नीत्वा तथाऽस्मान्सत्करिष्यसि ॥३१७॥ किं चास्मिंश्चण्डशौण्डीरे किं जयेयं रणाजिरे ? । सुमेधाः सहयुद्धा चेन्न त्वमेकमना भवेः ॥३१८।। राज्यलक्ष्मीस्तवैवेयमिमे प्राणास्तवैव च । किमन्यदस्ति ? येन त्वां विष्णो ! सत्कुर्महे वयम् ॥३१९॥- - तथापि पृथुचित्तेन निनिमित्तोपकारिणा । पदातिलवसंख्यायामयं चिन्त्यो जनस्त्वया ॥३२०॥ इति विज्ञेन विज्ञाप्य विष्णवे पाण्डुजन्मना । स्वर्णरत्नगजाश्वादिसर्वस्वमुपदीकृतम् ॥३२१॥ त्वयेदानीं ममैवेदं सर्वं वस्तु समर्पितम् । निर्बन्धं तदलंकृत्वा विजयेथाश्चिरं भुवि ॥३२२॥ इति सम्बोध्य कौन्तेयं तेनार्चितपरिच्छदः । वैकुण्ठोऽचलदुत्कण्ठावती द्वारवती प्रति ॥३२३॥ युग्मम् । धर्मजस्तमनुव्रज्य पुरं कृच्छ्रान्न्यवर्तत । पृथासूनुकथानिष्णः कृष्णोऽपि स्वपुरीं ययौ ॥३२४॥ समभ्यर्च्य यथौचित्यं तेऽपि चित्राङ्गदादयः । प्रीतैः पाण्डुसुतैः सर्वे विसृज्यन्ते स्म खेचराः ॥३२५॥ कौन्तेयोऽथ पुरे सर्वव्यसनानि न्यवारयत् । एकस्याप्यपराधे हि ज्ञातिरुच्छिद्यते ध्रुवम् ॥३२६॥ अमारिपटहैश्चापि धर्ममुन्निद्रमादधे । कृपा हि सर्वजीवेषु परं धर्मस्य जीवितम् ॥३२७॥ स भोजनाय दीनानामनादीनवमानसः । नानाभोज्यविचित्राणि सत्रागाराण्यकारयत् ॥३२८॥
25
१. न आदीनवो-दोषो यस्मिंस्तदनादीनवम् ।